SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥११३॥ प्रव्रज्यावेषधारिभिः क्षुद्रैः। नानाविधैरुपायैरनाथवन्मुष्यते लोकः॥१॥” इत्यादि । तदेवं प्रव्रज्यावेषधारिणो लब्धा- लोक.वि.२ न्कामानवगाहन्ते तल्लाभार्थ च तदुपायेषु प्रवर्त्तन्ते इत्याह-'अणाणाए' इत्यादि, 'अनाज्ञया' स्वैरिण्या बुद्ध्या 'मुनय' इति मुनिवेषविडम्बिनः कामोपायान् 'प्रत्युपेक्षन्ते' कामोपायारम्भेषु पौनःपुन्येन लगन्तीति, आह च-'एत्थ' इत्यादि, उद्देशक:२ 'अत्र' अस्मिन् विषयाभिष्वङ्गाज्ञानमये भावमोहे पौनःपुन्येन 'सन्नाः' विषण्णा निमग्नाः पङ्कावमग्ना नागा इवात्मानमाक्रष्टुं नालमिति, आह च-'नो हव्वाए नो पाराए' यो हि मध्येमहानदीपूरं निमग्नो भवत्यसौ नारातीयतीराय नापि पारेमहानदीपूरमिति, एवमत्रापि कुतश्चिन्निमितात्त्यक्तगृहगृहिणीपुत्रधनधान्यहिरण्यरत्नकुप्यदासीदासादिविभव आकिश्चन्यं प्रतिज्ञायारातीयतीरदेश्यागृहवाससौख्यान्निर्गतः सन् नो हवाएत्ति भवति, पुनरपि वान्तभोगाभिलाषितया यथोक्तसंयमा-18 भावेन तक्रियाया विफलत्वात् नो पाराए त्ति भवति, उभयतो मुक्तबन्धना मुक्तोलीवोभयभ्रष्टो न ग्रहस्थो नापि प्रवजित इत्युक्तं भवति, उक्तं च-"इन्द्रियाणि न गुप्तानि, लालितानि न चेच्छया । मानुष्यं दुर्लभं प्राप्य, न भुक्तं नापि शोषितम् ॥१॥” इति । ये पुनरप्रशस्तरतिनिवृत्ताः प्रशस्तरतिमधिशयानास्ते किंभूता भवन्तीत्याह विमुत्ता हु ते जणा जे जणा पारगामिणो, लोभमलोभेण दुगुंछमाणे लद्धे कामे नाभिगाहइ (सू०७४) ॥११३॥ विविधम्-अनेकप्रकारं द्रव्यतो धनस्वजनानुषङ्गाद्भावतो विषयकषायादिभ्योऽनुसमयं मुच्यमाना एव भाविनि भूत-15 वदुपचारान्मुक्ता विमुक्ताः ते जना ये जनाः सर्वस्वजनभूता निर्ममत्वाः पारगामिनो भवन्ति, पारो-मोक्षः संसाराणवतट-15 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy