SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ वृत्तित्वात्तत्कारणानि ज्ञानदर्शन चारित्राण्यपि पार इति, भवति हि तादर्थ्यात्ताच्छन्द्यं यथा तन्दुलान् वर्षति पर्जन्यः, अतस्तत्पारं - ज्ञानदर्शनचारित्राख्यं गन्तुं शीलं येषां ते पारगामिनः, ते मुक्ता भवन्तीति पूर्वेण सम्बन्धः । कथं पुनः | सम्पूर्णपारगामित्वं भवतीत्याह - 'लोभं' इत्यादि, इह हि लोभः सर्वसङ्गानां दुस्त्यजो भवति, तथाहि - क्षपकश्रेण्यन्तर्गतस्यापगताशेषकषायस्यापि खण्डशः क्षिप्यमाणोऽप्यनुबध्यत इति, अतस्तं लोभं, तद्विपक्षेण अलोभेन 'जुगुप्समानो' निन्दन्परिहरन् किं करोतीत्याह - 'लद्धे' इत्यादि, 'लब्धान्' प्राप्तानिच्छामदनरूपान् कामान् 'नाभिगाहते' न सेवते, यो हि शरीरादावपि निवृत्तलोभः स कामाभिष्वङ्गवान्न भवति, ब्रह्मदत्तामन्त्रितचित्रवदिति, प्रधानान्त्यलोभपरित्यागेन चोपसर्जनाधस्तनपरित्यागो द्रष्टव्यः, तद्यथा - क्रोधं क्षान्त्या जुगुप्समानो मानं मार्द्दवेन मायामार्जवेनेत्याद्यप्यायोज्यं, लोभोपादानं तु सर्वकषायप्राधान्यख्यापनार्थमुपाददे, तथाहि तत्प्रवृत्तः साध्यासाध्यविवेकविकलः कार्याकार्यविचाररहितः सन्नर्थैकदत्तदृष्टिः पापोपादानमास्थाय सर्वाः क्रियाः अधितिष्ठतीति, तदुक्तम्- " धांवेइ रोहणं तरइ सायरं भमइ गिरिणिगुंजेसुं । मारेइ बंधवंपिहु पुरिसो जो होइ धणलुद्धो ॥ १ ॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो । कुलसीलजाइपच्चयधिदं च लोभद्दुओ चयइ ॥ २ ॥" इत्यादि, तदेवं कुतश्चिन्निमित्तात्सहापि लोभादिना निष्क्रम्य पुनर्लोभादिपरित्यागः कार्यः, अन्यस्तु लोभं विनापि प्रव्रज्यां प्रतिपद्यत इति दर्शयति १ धावति रोहणं तरति सागरं भ्राम्यति गिरिनिकुञ्जेषु । मारयति बान्धवमपि पुरुषो यो भवति धनलुब्धः ॥ १ ॥ अटति बहु वहति भारं सहते क्षुधां पापमाचरति धृष्टः । कुलशीलजातिप्रत्ययधृतीश्च लोभाभिद्रुतस्त्यजति ॥ २ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy