SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ न सर्वे संयमाला ' जडा अप ट्ठाय लद्धे कामे अभिगाहइ, अणाणाए मुणिणो पडिलेहंति, इत्थ मोहे पुणो पुणो । सन्ना नो हव्वाए नो पाराए (सू० ७३) आज्ञाप्यत इत्याज्ञा-हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेशस्तद्विपर्ययोऽनाज्ञा तया अनाज्ञया सत्या 'स्पृष्टाः परीषहोपसग्गैः, अपिशब्दः सम्भावनायां स च भिन्नक्रमो निवन्त इत्यस्मादनन्तरं द्रष्टव्यः, 'एके' मोहनीयोदया-४ त्कण्डरीकादयो न सर्वे संयमात्समस्तद्वन्द्वोपशमरूपात् निवर्तन्ते अपीति, सम्भाव्यत एतन्मोहोदयस्येत्यपिशब्दार्थः, किंभूताः सन्तो निवर्तन्त इत्याह-'मन्दा' जडा अपगतकर्त्तव्याकर्त्तव्यविवेकाः, कुत एवंभूता?, यतो 'मोहेन प्रावृता' दमोह:-अज्ञानं मिथ्यात्वमोहनीयं वा तेन प्रावृता-गुण्ठिताः, उक्तं च-"अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः। अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः॥१॥" इत्यादि, तदेवमवाप्तचारित्रोऽपि कर्मोदयात्परीषहोदयेऽङ्गीकृतलिङ्गः पश्चाद्भावतामालम्बत इत्युक्तम् । अपरे तु स्वरुचिविरचितवृत्तयो नानाविधैरुपायैर्लोकादर्थ जिघृक्षवः किल वयं संसारोद्विग्ना मुमुक्षवस्तेषु तेषु आरम्भविषयाभिष्वङ्गेषु प्रवर्तत इति दर्शयति-'अपरिग्गहा' इत्यादि, परिः-समन्तात् मनोवाक्कायकर्मभिर्गृह्यत इति परिग्रहः स येषां नास्तीत्यपरिग्रहा एवंभूता वयं भविष्याम इति शाक्यादिमतानुसारिणः स्वयूथ्या वा 'समुत्थाय' चीवरादिग्रहणं प्रतिपद्य, ततो लब्धान् कामान् 'अभिगाहन्ते' सेवन्ते, तिव्यत्ययेन चैकवचनमिति, अत्र चान्त्यव्रतोपादानात् शेषाण्यपि ग्राह्याणि, अहिंसका वयं भविष्याम एवममृषावादिन इत्याद्यप्यायोज्यम् । तदेवं शैलूषा इवान्यथावादिनोऽन्यथाकारिणः कामार्थमेव तांस्तान् प्रव्रज्याविशेषान्बिभ्रति, उक्तं च-"स्वेच्छाविरचितशास्त्रैः उक्तं च-" रित्रोs Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy