SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ११२ ॥ तमसः कुतोऽस्ति शक्तिर्दिन करकिरणाग्रतः स्थातुम् ॥ १ ॥" इत्यादि, यो ह्यज्ञानी मोहोपहतचेताः स विषयाभिष्वङ्गात्संयमे सर्वद्वन्द्वप्रत्यनीके रत्यभावं विदध्याद् आह च - अज्ञानान्धाश्चटुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगतुङ्गार्जने वा । विद्वश्चित्तं भवति हि महन्मोक्षमार्गेकतानं, नाल्पस्कन्धे विटपिनि कपत्यंसभित्तिं गजेन्द्रः ॥ १ ॥” नैतन्मृष्यामहे, यतो ह्यवाप्तचारित्रस्यायमुपदेशो दित्सितः, चारित्रावाप्तिश्च न ज्ञानमृते, तत्कार्यत्वाच्चारित्रस्य, न च ज्ञानारत्योर्विरोधः, अपि तु रत्यरत्योः, ततश्च संयमगता रतिरेवारत्या वाध्यते न ज्ञानम्, अतो ज्ञानिनोऽपि चारित्रमोहनीयोदयात्संयमे स्यादेवारतिः, यतो ज्ञानमप्यज्ञानस्यैव बाधकं, न संयमारतेः, तथा चोक्तम्- ज्ञानं भूरि यथार्थवस्तुविषयं स्वस्य द्विषो बाधकं, रागारातिशमाय हेतुमपरं युङ्क्ते न कर्तृ स्वयम् । दीपो यत्तमसि व्यनक्ति किमु नो रूपं स एवेक्षतां, सर्वः स्वं विषयं प्रसाधयति हि प्रासङ्गिकोऽन्यो विधिः ॥ १ ॥ तथेदमपि भवतो न कर्णविवरमगाद्यथा- 'बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यतीत्यतो यत्किञ्चिदेतत्, अथवा नारत्यापन्न एवैवमुच्यते, अपि त्वयमुपदेशो मेधावी संयमविषये मा विधादरतिमिति । संयमारतिनिवृत्तश्च सन् कं गुणमवाप्नोतीत्याह - 'खणंसि मुक्के 'परमनिरुद्धः कालः क्षणः जरत्पट्टशाटिकापाटनदृष्टान्तसमयप्रसाधितः तत्र मुक्तो विभक्तिपरिणामाद्वा क्षणेन - अष्टप्रकारेण कर्म्मणा संसारबन्धनैर्वा विषयाभिष्वङ्गस्नेहादिभिर्मुक्तो भरतवदिति, ये पुनरनुपदेशवर्त्तिनः कण्डरीकाद्यास्ते चतुर्गतिकसंसारान्तर्वर्त्तिनो दुःखसागरमधिवसन्तीत्याह च अणाणाय पुट्ठावि एगे नियद्वंति, मंदा मोहेण पाउडा, अपरिग्गहा भविस्सामो समु Jain Education International For Personal & Private Use Only लोक.वि. २ उद्देशकः२ ॥ ११२ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy