________________
BOSSES GRISESSA
भवति-संयमे रतिं कुबीत, तद्विहितरतस्तु न किञ्चिद्वाधायै, नापीहापरसुखोत्तरबुद्धिरिति, आह च-"क्षितितलशयनं वा प्रान्तभैक्षाशनं वा, सहजपरिभवो वा नीचदुर्भाषितं वा । महति फलविशेषे नित्यमभ्युद्यतानां, न मनसि न शरीरे दुःखमुत्पादयन्ति ॥ १॥ तणसंथारनिसण्णोऽवि मुणिवरो भट्टरागमयमोहो। जं पावइ मुत्तिसुहं तं कत्तो चक्कवट्टीवि? ॥२॥" इत्यादि च । अत्र हि चारित्रमोहनीयक्षयोपशमादवाप्तचारित्रस्य पुनरपि तदुदयादवदिधाविषोरनेन सूत्रेणोपदेशो दीयते, तच्चावधावनं संयमात् यहेतुभिर्भवति तान्नियुक्तिकारो गाथयाऽऽचष्टे। बिइउद्देसे अढो उ संजमे कोइ हुज्ज अरईए । अन्नाणकम्मलोभाइएहिं अज्झत्थदोसेहिं ॥ १९७ ॥
इह हि प्रथमोद्देशके बह्वयो नियुक्तिगाथा आमंस्त्वियमेवैकेत्यतो मन्दबुद्धेः स्यादारेका यथा इयमपि तत्रत्यैवेत्यतो विनेयसुखप्रतिपत्त्यर्थ द्वितीयोद्देशकग्रहणमिति, कश्चित्कण्डरीकदेशीयः 'संयम' सप्तदशभेदभिन्ने 'अदृढः' शिथिलो मोहनीयोदयादरत्युद्भवाद्भवेत् , मोहनीयोदयोऽप्याध्यात्मिकैर्दोषैर्भवेत् , ते चाध्यात्मदोषा अज्ञानलोभादयः, आदिशब्दादिच्छामदनकामानां परिग्रहो, मोहस्याज्ञानलोभकामाद्यात्मकत्वात्तेषां चाध्यात्मिकत्वादिति गाथार्थः॥ [द्वितीयाध्ययने द्वितीयोद्देशकनियुक्तिः ॥ ननु चारतिमतो मेधाविनोऽनेन सूत्रेणोपदेशो दीयते यथा-संयमारतिमपवर्तेत, मेधावी चात्र विदितसंसारस्वभावो विवक्षितो, यश्चैवंभूतो नासावरतिमान् तद्वांश्चेन्न विदितवेद्य इत्यनयोः सहानवस्थानलक्षणेन विरोधेन विरोधाच्छायातपयोरिव नैकत्रावस्थानम् , उक्तं च-"तज्ज्ञानमेव न भवति यस्मिन्नुदिते विभाति रागगणः।
१ तृणसंस्तारनिषण्णोऽपि मुनिवरो भ्रष्टरागमदमोहः । यत्प्राप्नोति मुक्तिसुखं कुतस्तत् चक्रवर्त्यपि ? ॥१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org