________________
भवान् न पश्यति आत्मानं नावलोकयति शिरः पलितभस्मावगुण्डितं मां दुहितृभूतमेवं गृहितुमिच्छसीत्यादिवचसामास्पदत्वान्न रत्यै भवति, न विभूषायै, यतो विभूषितोऽपि प्रततचर्मवलीकः स नैव शोभते, उक्तं च-"न विभूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । अथ तेषु च वर्तते जनो, ध्रुवमायाति परां विडम्बनाम् ॥१॥जं 'जं करेइ तं तं न सोहए जोव्वणे अतिकंते । पुरिसस्स महिलियाइ व एक्कं धम्म पमुत्तूणं ॥ २॥" गतमप्रशस्तं मूलस्थानं, साम्प्रतं प्रशस्तमुच्यते
इच्चेवं समुट्ठिए अहोविहाराए अंतरं च खलु इमं सपेहाए धीरे मुहुत्तमवि णो पमा
यए वओ अच्चेति जोव्वणं व (सू०६५) अथवा यत एवं ते सुहृदो नालं त्राणाय शरणाय वा अतः किं विदध्यादित्याह-'इच्चेव' मित्यादि, 'इतिः' उपप्रदर्शने, अप्रशस्तमूलगुणस्थाने वर्तमानो जराभिभूतो न हास्याय न क्रीडायै न रत्यै न विभूषायै प्रत्येकं च शुभाशुभकर्मफलं प्राणिनामित्येवं मत्वा समुत्थितः-सम्यगुत्थितः शस्त्रपरिज्ञोक्तं मूलगुणस्थानमधितिष्ठन् अहो-इत्याश्चर्ये विहरणं विहारः आश्चर्यभूतो विहारो अहोविहारो-यथोक्तसंयमानुष्ठानं तस्मै अहोविहारायोत्थितः सन् क्षणमपि नो प्रमादयेदित्त्युत्तरेण सण्टङ्कः, किंच-'अंतरं चेत्यादि, अन्तरमित्यवसरः, तच्चार्यक्षेत्रसुकुलोत्पत्तिबोधिलाभसर्वविरत्यादिकं, चः समुच्चये, खलु
१ यद्यत्करोति तत्तन्न शोभते यौवनेऽतिक्रान्ते । पुरुषस्य महिलाया वा एकं धर्म प्रमुच्य ॥२॥
विहरणं विहार
सन् क्षणमपि
चायक्षेत्रसुकुलोत्पति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org