________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ १०७ ॥
रवधारणे, 'इम' मित्यनेनेदमाह-विनेयस्तपःसंयमादाववसीदन् प्रत्यक्षभावापन्नमार्यक्षेत्रादिकमन्तरमवसरमुपदर्थ्याभिधीयतेतवाय मेवम्भूतोऽवसरोऽनादौ संसारे पुनरतीव सुदुर्लभ एवेति, अतस्तमवसरं 'संप्रेक्ष्य' पर्यालोच्य धीरः सन्मुहूर्त्तमप्येकं नो 'प्रमादयेत्' प्रमादवशगो भूयादिति, सम्प्रेक्ष्येत्यत्र अनुस्वारलोपश्छान्दसत्वादिति, अन्यदप्यलाक्षणिकमेवं जातीयमस्मादेव हेतोरवगन्तव्यमिति, आन्तमहर्त्तिकत्वाच्च छानस्थिकोपयोगस्य मुहूर्त्तमित्युक्तम्, अन्यथा समयमप्येकं न प्रमादयेदिति वाच्यं तदुक्तम्- “सम्प्राप्य मानुषत्वं संसारासारतां च विज्ञाय । हे जीव ! किं प्रमादान्न चेष्टसे शान्तये सततम् ? ॥ १ ॥ ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकत डिल्लताविलसितप्रतिमम् ॥ २ ॥ ” इत्यादि, किमर्थं च नो प्रमादयेदित्याह - 'वयो अच्चेइ'त्ति, वयः - कुमारादि अत्येति - अतीव एति-याति अत्येति, अन्यच्च - ' जोव्वणं व'त्ति अत्येत्यनुवर्तते, यौवनं वाऽत्येति - अतिक्रामति, वयोग्रहणेनैव यौवनस्य गतत्वात्तदुपादानं प्राधान्यख्यापनार्थे, धर्मार्थकामानां तन्निबन्धनत्वात्सर्ववयसां यौवनं साधीयः, तदपि त्वरितं यातीति, उक्तं च- "नइवेगसमं चवलं च जीवियं जोव्वणं च कुसुमसमं । सोक्खं च जं अणिच्चं तिण्णिवि तुरमाणभोजाई ॥ १ ॥” तदेवं मत्वा अहोविहारायोत्थानं श्रेय इति ॥ ये पुनः संसाराभिष्वङ्गिणोऽसंयमजीवितमेव बहु मन्यन्ते ते किंभूता भवतीत्याह
जीविए इह जे पमत्ता से हंता छेत्ता भेत्ता लुंपित्ता विलुंपित्ता उद्दवित्ता उत्तासइत्ता,
१ नदीवेगसमं चपलमेव जीवितं यौवनं च कुसुमसमम् । सौख्यं च यदनित्यं त्रीण्यपि त्वरमाणभोज्यानि ॥ १ ॥
Jain Education International
For Personal & Private Use Only
लोक.वि. २ उद्देशकः १
॥ १०७ ॥
www.jainelibrary.org