SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) लोक.वि.२ उद्देशका हसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, धिक्कष्टं जरयाऽभिभूतपुरुषं पुत्रोऽप्यवज्ञायते ॥ १॥” इत्यादि । तदेवं जराभिभूतं निजाः परिवदन्ति, असावपि परिभूयमानस्तद्विरक्तचेतास्तदपवादाञ्जनायाचष्टे, आह च-'सो वा' इत्यादि, वाशब्दः पूर्वापेक्षया पक्षान्तरं दर्शयति, ते वा निजास्तं परिवदन्ति, स वा जराजजरितदेहस्तान्निजाननेकदोषोद्घट्टनतया परिवदेत्-निन्देद्, अथवा खिंद्यमानार्थतया तानसाववगायति-परिभवतीत्यर्थः। येऽपि पूर्वकृतधर्मवशात्तं वृद्धं न परिवदन्ति तेऽपि तदुःखापनयनसमर्था न भवन्ति, आह च-'नाल'मित्यादि, नालंन समर्थाः ते-पुत्रकलत्रादयः, तवेति प्रत्यक्षभावमुपगतं वृद्धमाह, त्राणाय शरणाय वेति, तत्रापत्तरणसमर्थ त्राणमुच्यते, यथा महाश्रोतोभिरुह्यमानः सुकर्णधाराधिष्ठितं प्लवमासाद्यापस्तरतीति, शरणं पुनर्यदवष्टम्भान्निर्भयैः स्थीयते तदुच्यते, तत् पुनर्दुर्ग पर्वतः पुरुषो वेति, एतदुक्तं भवति-जराभिभूतस्य न कश्चित् त्राणाय शरणाय वा, त्वमपि तेषां नालं त्राणाय शरणाय वेति, उक्तं च-"जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१॥” इत्यादि, स तु तस्यामवस्थायां किम्भूतो भवतीत्याह-'से ण हस्साए' इत्यादि, 'स' जराजीर्णविग्रहो न हास्याय भवति, तस्यैव हसनीयत्वात् न परान् हसितुं योग्यो भवतीत्यर्थः, स च समक्षं परोक्षं वा एवमभिधीयते जनैः-किं किलास्य हसितेन हास्यास्पदस्येति, न च क्रीडायै-न च लङ्घनवल्गनास्फोटनक्रीडानां योग्योऽसौ भवति, नापि रत्यै भवति, रतिरिह विषयगता गृह्यते, सा पुनर्ललनावगृहनादिका, तथाभूतोऽप्यवजुगूहिषुः स्त्रीभिरभिधीयते-न लज्जते १ तद्व्यतिरिक. प्र. २ विद्यमाना० प्र. ॥१०६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy