________________
पचितकलाकुशलेषु समस्तकार्यचिन्ताभार निचिक्षेप । तेऽपि वयमनेनेदृशीमवस्थां नीताः सर्वजनाग्रेसरा विहिता इति कृतोपकाराः सन्त कुलपुत्रतामवलम्बमानाः स्वतः क्वचित् कार्यव्यासङ्गात् स्वभार्याभिस्तमकल्पं वृद्धं प्रत्यजजागरन् , ता अप्युद्वर्तनस्नानभोजनादिना यथाकालमक्षुण्णं विहितवत्यः। ततो गच्छत्सु दिवसेषु वर्द्धमानेषु पुत्रभाण्डेषु प्रौढीभवत्सु भर्तृषु जरदुद्धे च विवशकरणपरिचारे सर्वाङ्गकम्पिनि गलदशेषश्रोतसि सति शनैः शनैरुचितमुपचारं शिथिलतां निन्युः। असावपि मन्दप्रतिजागरणतया चित्ताभिमानेन विश्रसया च सुतरां दुःखसागरावगाढः सन् पुत्रेभ्यः स्नुषाक्षुण्णान्याचचक्षे, ताश्च स्वभर्तृभिश्चेखिद्यमानाः सुतरामुपचारं परिहृतवत्यः, सर्वाश्च पर्यालोच्यैकवाक्यतया स्वभर्तृनभिहितवत्यः-क्रियमाणेऽप्ययं प्रतिजागरणे वृद्धभावाद्विपरीतबुद्धितयाऽपडते, यदि भवतामप्यस्माकमुपर्यविस्रम्भस्ततो|ऽन्येन विश्वसनीयेन निरुपयत, तेऽपि तथैव चक्रुः, तास्तु तस्मिन्नवसरे सर्वा अपि सर्वाणि कार्याणि यथाऽवसरं विहितवत्यः, असावपि पुत्रैः पृष्टः पूर्वविरुक्षितचेतास्तथैव ता अपवदति, नैता मम किञ्चित्सम्यक् कुर्वन्ति, तैस्तु प्रत्ययिकवचनादवगततत्त्वैर्यथाऽयमुपचर्यमाणोऽपि वार्धक्याद्रोरुद्यते, ततस्तैरप्यवधीरितोऽन्येषामपि यथावसरे तद्भण्डनस्वभावतामाचचक्षिरे । ततोऽसौ पुत्रैरवधीरितः स्नुषाभिः परिभूतः परिजननावगीतो वाड्मात्रेणापि केनचिदप्यननुवय॑मानः सुखितेषु दुःखितः कष्टतरामायुःशेषामवस्थामनुभवतीति । एवमन्योऽपि जराभिभूतविग्रहस्तृणकुब्जीकरणेऽप्यसमर्थः सन् कार्येकनिष्ठलोकात्परिभवमाप्नोतीति, आह-"गात्रं सङ्कचितं गतिर्विगलिता दन्ताश्च नाशं गता, दृष्टिभ्रंश्यति रूपमेव
१ स्मृतोपकाराः २ असमर्थ.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org