________________
उद्देशका १
श्रीआचा- युषः स्तोकाः पुद्गलाः, तद्विशेषाधिकाः प्रत्येकं नामगोत्रयोः, परस्परं तुल्याः, तद्विशेषाधिकाः प्रत्येकं ज्ञानदर्शनावरणाराङ्गवृत्तिः न्तरायाणां, तेभ्यो विशेषाधिका मोहनीये । ननु च तेभ्यो विशेषाधिका इत्यत्र निर्धारणे पञ्चमी, सा च “पञ्चमी विभक्ते" (शी०) (पा०२-३-४२) इत्यनेन सूत्रेण विधीयते, अस्य चायमों-विभागो विभक्तं तत्र पञ्चमी विधीयमाना यत्रात्यन्तविभागस्तत्रैव
भवति, यथा माथुरेभ्यः पाटलिपुत्रका अभिरूपतराः, इह च कर्मपुद्गलानां सर्वदैकत्वं, तथावस्थानामेव च बुद्ध्या बहुप्रदेशादिगुणेन पृथक्करणं चिकीर्षितं, तत्र षष्ठी सप्तमी वा न्याय्या, तद्यथा-गवां गोषु वा कृष्णा सम्पन्नक्षीरतमेति, |नैष दोषो, यत्रावध्यवधिमतोः सामान्यवाची शब्दः प्रयुज्यते तत्रैव षष्ठीसप्तम्यौ, “यतश्च निर्धारण (पा०२-३-४१) मित्यमानेन सूत्रेण विधीयते, यथा गवां कृष्णा सम्पन्नक्षीरतमा, मनुष्येषु पाटलिपुत्रकाः आध्यतराः, कर्मवर्गणापुद्गलानां
वेदनीये बहुतरा इति, यत्र पुनर्विशेषवाची शब्दोऽवधित्वेनोपादीयते तत्र पञ्चम्येव, यथा खण्डमुण्डशबलशाबलेयधवलधावलेयव्यक्तिभ्यः कृष्णा सम्पन्नक्षीरतमेति, अतो नात्र विभागः कारणमविभागो वा, यतो माथुरपाटलिपुत्रकादिविभागेन विभक्तानामपि सामान्यमनुष्यादिशब्दोच्चारणे षष्ठीसप्तम्यौ भवतो, यत्र तु पुनाथुरादिविशेषोऽवधित्वेनोपादीयते तत्र कार्यवशादेकस्थानामपि पञ्चम्येव, तदिह सत्यपि कर्मवर्गणानामेकत्वे तद्विशेषस्यावधित्वेनोपादानात्पञ्चम्येव न्याय्येति, तद्विशेषाधिका वेदनीये । उक्तः प्रदेशबन्धः समुदानकापीति । साम्प्रतमीर्यापथिकं, "ईर गति| प्रेरणयोः" अस्माद्भावे ण्यत् , ईरणमीर्या तस्याः पन्था ईर्यापथस्तत्र भवमीर्यापथिक, कश्चर्यायाः पन्था भवति?, यदाश्रिता सा भवतीति ?, एतच्च व्युत्पत्तिनिमित्तं यतस्तिष्ठतोऽपि तद्भवति, प्रवृत्तिनिमित्तं तु स्थित्यभावः, तच्चोपशान्तक्षीण
॥९७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org