________________
RRORRECRSS
मोहसयोगकेवलिनां भवति, सयोगकेवलिनोऽपि हि तिष्ठतोऽपि सूक्ष्मगात्रसञ्चारा भवन्ति, उक्तं च-"केवली णं भंते ! अस्सिं समयंसि जेसु आगासपदेसेसु हत्थं वा पायं वा ओगाहित्ता णं पडिसाहरेजा, पभू णं भंते ! केवली तेसु चेवागासप-10 देसेसु पडिसाहरित्तए?, णो इणहे समडे, कहं?, केवलिस्स णं चलाई सरीरोवगरणाई भवंति, चलोवगरणत्ताए केवली
णो सञ्चाएति तेसु चेवागासपदेसेसु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं सूक्ष्मतरगात्रसञ्चाररूपेण योगेन यत्कर्म |बध्यते तदी-पथिकम्-ईर्याप्रभवं, ईहेतुकमित्यर्थः, तच्च द्विसमयस्थितिकम्-एकस्मिन् समये बद्धं द्वितीये वेदितं, तृतीयसमये तदपेक्षया चाकर्मतेति, कथमिति?, उच्यते, यतस्तत्प्रकृतितः सातावेदनीयमकषायत्वात् स्थित्यभावेन बध्यमानमेव परिशटति, अनुभावतोऽनुत्तरोपपातिकसुखातिशायि प्रदेशतः स्थूलरूक्षशुक्लादिबहुप्रदेशमिति, उक्तं च-"अप्पं बायरमउयं बहुं च लुक्खं च सुक्किलं चेव । मंदं महव्वतंतिय साताबहुलं च तं कम्मं ॥१॥" अल्पं स्थितितः स्थितेरेवाभावात् , बादरं परिणामतोऽनुभावतो मृदनुभावं, बहु च बहुप्रदेशैः, रूक्षं स्पर्शतो, वर्णेन शुक्त, मन्दं लेपतः, स्थूलचूर्णमुष्टिमृष्टकुड्यापतितलेपवत् महाव्ययमेकसमयेनैव सर्वापगमात्, साताबहुलमनुत्तरोपपातिकसुखातिशायीति । उक्तमीर्यापथिकम् , अधुना आधाकर्म, यदाधाय-निमित्तत्वेनाश्रित्य पूर्वोक्तमष्टप्रकारमपि कर्म बध्यते तदाधाकम्र्मेति, तच्च शब्दस्पर्शरसरूपगन्धादिकमिति, तथाहि-शब्दादिकामगुणविषयाभिष्वङ्गवान् सुखलिप्सुर्मोहोपहतचेताः परमार्था
१ केवली भदन्त ! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वाऽवगाह्य प्रतिसंहरेत्, प्रभुर्भदन्त ! केवली तेष्वेवाकाशप्रदेशेषु प्रतिसंहर्तुम् ?, नैषोऽर्थः समर्थः, कथम् ?, केवलिनश्चलानि शरीरोपकरणानि भवन्ति, चलोपकरणतया केवली न शक्नोति तेष्वेवाकाशप्रदेशेषु हस्तं वा पादं वा प्रतिसंहर्तुम्.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org