________________
सस्य दो सप्तभागौ पल्योपमासन्ख्येयभागन्यूनावन्तर्मुहूर्तमबाधा, आहारकतदङ्गोपाङ्गतीर्थकरनाम्नां सागरोपमको|| टीकोटिभिन्नान्तर्मुहर्तमबाधा, ननु चोत्कृष्टोऽप्येतावन्मात्र एवाभिहितस्ततः कोऽनयोर्भेद इति!, उच्यते, उत्कृष्टात् सहख्येयगुणहीनो जघन्य इति, यशःकीयुच्चैर्गोत्रयोरष्टमुहूर्तान्यन्तर्मुहूर्तमबाधा, देवनारकायुषोर्दश वर्षसहस्राण्यन्तर्मुहुर्तमबाधा, तिर्यग्मनुजायुषोः क्षुल्लकभवोऽन्तर्मुहूर्त्तमबाधेति, बन्धनसङ्घातयोरौदारिकादिशरीरसहचरितत्वात्तद्गत एवोत्कृष्टजघन्यभेदोऽवगन्तव्य इति । उक्तः स्थितिबन्धः, अनुभावबन्धस्तूच्यते-तत्र शुभाशुभानां कर्मप्रकृतीनां प्रयोगकर्मणोपात्तानां प्रकृतिस्थितिप्रदेशरूपाणां तीब्रमन्दानुभावतयाऽनुभवनमनुभावः, स चैकद्वित्रिचतुःस्थानभेदेनानुगन्तव्यः, तत्राशुभप्रकृतीनां कोशातकीरससमक्वथ्यमानार्द्धत्रिभागपादावशेषतुल्यतया तीव्रानुभावोऽवगन्तव्यो, मन्दानुभावस्तु जातिरसैकद्वित्रिचतुर्गुणोदकप्रक्षेपास्वादतुल्यतयेति, शुभानां तु क्षीरेक्षुरसदृष्टान्तः पूर्ववद्योजनीयः, अत्र च कोशातकीर्णरसादावुदकबिन्द्वादिप्रक्षेपात् व्यत्ययाद्वा भेदानामानन्त्यमवसेयमिति । अत्र चायूंषि भवविपाकीनि आनुपूर्व्यः क्षेत्रविपाकिन्यः शरीरसंस्थानाङ्गोपाङ्गसङ्घातसंहननवर्णगन्धरसस्पर्शागुरुलघूपघातपराघातोद्योतातपनिर्माणप्रत्येकसाधारणस्थिरास्थिरशुभाशुभरूपाः पुद्गलविपाकिन्यः, शेषास्तु ज्ञानावरणादिका जीवविपाकिन्य इत्युक्तोऽनुभावबन्धः । प्रदेशबन्धस्त्वेकविधादिबन्धकापेक्षया भवति, तत्र यदेकविधं बध्नाति तदा प्रयोगकर्मणैकसमयोपात्ताः पुद्गलाः साताबेदनीयभावेन विपरिणमन्ते, पडिधबन्धकस्य त्वायुम्र्मोहनीयवर्जः षोढा, सप्तविधबन्धकस्य सप्तधा, अष्टविधबन्धकस्याष्टधेति, तत्राद्यसमयप्रयोगात्ताः पुद्गलाः समुदानेन द्वितीयादिसमयेष्वल्पबहुप्रदेशतयाऽनेन क्रमेण व्यवस्थापयति-तत्रा
Jain Education International
For Personal & Private Use Only
www.janelibrary.org