________________
उवागोयं विवरीए बंधई इयरं ॥ १० ॥ पाणवहादीसु रतो जिणपूयामोक्खमग्गविग्घयरो । अज्जेइ अंतरायं ण लइइ | जेणिच्छियं लाभं ॥ ११ ॥” स्थितिबन्धो मूलोत्तरप्रकृतीनामुत्कृष्टजघन्यभेदः, तत्रोत्कृष्टो मूलप्रकृतीनां ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोव्यः यस्य च यावत्यः कोटीकोव्यः स्थितिस्तस्य तावन्त्येव वर्षशतान्यबाधा, तदुपरि प्रदेशतो विपाकतो वा अनुभचः, एतदेव प्रतिकर्म्मस्थिति योजनीयं, सप्ततिम्मोहनीयस्य, नामगोत्रयोविंशतिः, त्रयस्त्रिंशत्सागरोपमाण्यायुषः पूर्वकोटीत्रिभागोऽबाधा । जघन्यो ज्ञानदर्शनावरणमोहनीयान्तरायाणामन्तर्मुहूर्त्त, नामगोत्रयोरष्टौ मुहूर्त्ताः, वेदनीयस्य द्वादश, आयुषः क्षुलकभवः, स चानापानसप्तदशभागः । साम्प्र तमेतदेव बन्धद्वयमुत्तरप्रकृतीनामुच्यते तत्रोत्कृष्टो मतिश्रुतावधिमनःपर्यायकेवलावरणनिद्रापश्ञ्चकचक्षुर्दर्शनादिचतुष्कासद्वेद्यदानाद्यन्तरायपञ्चकभेदानां विंशतेरुत्तरप्रकृतीनां त्रिंशत्सागरोपमकोटीकोव्यः, स्त्रीवेदसातवेदनीयमनुजगत्यानुपूर्वीणां चतसृणां पञ्चदश, मिथ्यात्वस्यौधिकमोहनीयवत् कषायषोडशकस्य चत्वारिंशत् कोटीकोव्यः, नपुंसकवेदारतिशोकभय जुगुप्सानरकतिर्यग्गत्ये केन्द्रियपश्ञ्चेन्द्रियजात्यौदा रिकवैक्रियशरीरतदङ्गोपाङ्गद्वयतैजसकार्म्मणहुण्डसंस्थानान्त्य| संहनन वर्णगन्धरसस्पर्शन र कतिर्यगानुपूर्वी अगुरुलघूपघातपराधातोच्छ्वासातपोद्योताप्रशस्त विहायोगतित्र सस्थावरबादरपर्या| तक प्रत्येकास्थिराशुभदुर्भगदुःस्वरानादेयायशः कीर्त्तिनिर्माणनीचैर्गोत्ररूपाणां त्रिचत्वारिंशत उत्तरप्रकृतीनां विंशतिः, पुंवे दहास्यरतिदेवगत्यानुपूर्वी द्वयाद्यसंस्थान संहननप्रशस्तविहायो गतिस्थिरशुभसुभगसुस्वरादेययशः कीर्त्त्यश्चैर्गोत्ररूपाणां प१ बघ्नात्युचैर्गोत्रं विपरीतो बनातीतरत् ॥ १० ॥ प्राणवधादिषु रतो जिनपूजा मोक्षमार्गविघ्नकरः । अर्जयत्यन्तरायं न लभते येनेप्सितं लाभम् ॥ ११ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org