SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ निद्रापञ्चकं प्राप्तदर्शनलब्ध्युपयोगोपघातकारि, दर्शनचतुष्टयं तु दर्शनलब्धिप्राप्तेरेव, अत्रापि केवलदर्शनावरणं सर्वघाति | शेषाणि तु देशतः, वेदनीयं द्विधा-सातासातभेदात् , मोहनीयं द्विधा-दर्शनचारित्रभेदात्, तत्र दर्शनमोहनीयं त्रिधा| मिथ्यात्वादिभेदात्, बन्धतस्त्वेकविधं, चारित्रमोहनीयं पोशकषायनवनोकषायभेदात्पञ्चविंशतिविधम् , अत्रापि मिथ्यात्वं सञ्जवलनवर्जा द्वादश कषायाश्च सर्वघातिन्यः, शेषास्तु देशघातिन्य इति, आयुष्कं चतुर्द्धा-नारकादिभेदात्, नाम द्विचत्वारिंशभेदं गत्यादिभेदात्, त्रिनवतिभेदं चोत्तरोत्तरप्रकृतिभेदात्, गतिश्चतुर्दा जातिरेकेन्द्रियादिभेदात्सञ्चधा शरीराणि औदारिकादिभेदात्पञ्चधा औदारिकवैक्रियाहारकभेदादङ्गोपाङ्गं त्रिधा निर्माणनाम सर्वजीवशरीरावयवनिष्पादकमेकधा बन्धननाम औदारिकादिकर्मवर्गणैकत्वापादकं पञ्चधा सङ्घातनामौदारिकादिकर्मवर्गणारचनाविशेषसंस्थापकं पञ्चधा संस्थाननाम समचतुरस्रादि षोढा संहनननाम वज्रऋषभनाराचादि षोडैव स्पर्शोऽष्टधा रसः पञ्चधा गन्धो द्विधा वर्णः पञ्चधा आनुपूर्वी नारकादिश्चतुर्दा विहायोगतिः प्रशस्ताप्रशस्तभेदात् द्विधा अगुरुलघूपघातपराघातातपोद्योतोच्छ्वासप्रत्येकसाधारणत्रसस्थावरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरसूक्ष्मवादरपर्याप्तकापर्याप्तकस्थिरास्थिरादेयानादेययशःकीर्तिअयश कीर्तितीर्थकरनामानि प्रत्येकमेकविधानीति, गोत्रमुच्चनीचभेदात् द्विधा, अन्तरायं दानलाभभोगोपभोगवीर्यभेदात् पञ्चधेत्युक्तः प्रकृतिबन्धो, बन्धकारणानि तु गाथाभिरुच्यन्ते-"पंडिणीयमंतराइय उवघाए १ सप्तधा-अनन्तानुबन्धिमिथ्यात्वादिभेदात् बन्धतस्तु पश्चधा प्र. २ द्वादश प्र. ३ एकविंशतिविधम् प्र. ४ प्रत्यनीकत्वेऽन्तराय उपधाते. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy