________________
राङ्गवृत्तिः (शी)
लोक.वि.२ उद्देशका
॥९४॥
योगः सप्तधा-औदारिकौदारिकमिश्रवैक्रियवैक्रियमिश्राहारकाहारकमिश्रकार्मणयोगभेदात् , तत्र मनोयोगो मनःपर्याप्त्या पर्याप्तस्य मनुष्यादेः, वाग्योगोऽपि द्वीन्द्रियादीनाम् , औदारिकयोगस्तिर्यग्मनुजयोः शरीरपर्याप्तेरू, तदारतस्तु मिश्रः, केवलिनो वा समुद्घातगतस्य द्वितीयषष्ठसप्तमसमयेषु, वैक्रियकाययोगो देवनारकबादरवायूनाम् , अन्यस्य वा वैक्रियलब्धिमतः, तन्मिश्रस्तु देवनारकयोरुत्पत्तिसमयेऽन्यस्य वा वैक्रियं निवर्तयतः, आहारककाययोगश्चतुर्दशपूर्वविद आहारकशरीरस्थस्य, तन्मिश्रस्तु निर्वर्तनाकाले, कार्मणयोगो विग्रहगतौ केवलिसमुद्घाते वा तृतीयचतुर्थपञ्चमसमयेष्विति । तदनेन पञ्चदशविधेनापि योगेनात्माऽष्टौ प्रदेशान् विहायोत्तप्तभाजनोदकवदुद्वर्त्तमानैः सर्वैरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशदेशस्थं कार्मणशरीरयोग्यं कर्मदलिकं यद् बध्नाति तत्प्रयोगकर्मेत्युच्यते, उक्तं च-"जाव णं एस जीवे एयइ वेयइ चलइ फंदईत्यादि ताव णं अट्ठविहबंधए वा सत्तविहबंधए वा छविहबंधए वा एगविहबंधए वा नो णं अबंधए"। समुदानकर्म सम्पूर्वादापूर्वाच्च ददातेयुडन्तात् पृषोदरादिपाठेन आकारस्योकारादेशेन रूपं भवति, तत्र प्रयोगकर्मणैकरूपतया गृहीतानां कर्मवर्गणानां सम्यग्मूलोत्तरप्रकृतिस्थित्यनुभावप्रदेशबन्धभेदेनाङ्-मर्यादया देशसर्वोपघातिरूपया तथा स्पृष्टनिधत्तनिकाचितावस्थया च स्वीकरणं समुदानं तदेव कर्म समुदानकर्म, तत्र मूलप्रकृतिबन्धो ज्ञानावरणीयादिः, उत्तरप्रकृतिबन्धस्तूच्यते-उत्तरप्रकृतिबन्धो ज्ञानावरणीयं पञ्चधा-मतिश्रुतावधिमनःपर्यायकेवलावरणभेदात्, तत्र केवलावारकं सर्वघाति शेषाणि तु देशसर्वघातीन्यपि, दर्शनावरणीयं नवधा-निद्रापञ्चकदर्शनचतुष्टयभेदात्, तत्र
१ यावदेष जीव एजते ध्येजते चलति स्पन्दते, तावदष्टविधबन्धको वा सप्तविधबन्धको वा षड्विधबन्धको वा एकविधवन्धको वा, नैवाबन्धकः.
॥१४॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org