SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ | द्वेषतिमिरोपप्लुतदृष्टेर्मनोज्ञेतरविषयोपलब्धौ सत्यां कषाया 'वर्त्तन्ते' प्रादुर्भवन्ति, तन्मूलश्च संसारपादपः प्रादुर्भवतीत्यतः शब्दादि विषयोद्भूत (ताः) कषायाः 'संसारे' संसारविषयं मूलस्थानमेवेति एतदुक्तं भवति - रागाद्युपहतचेताः परमार्थमजानानोऽतत्स्वभावेऽपि तत्स्वभावारोपणेनान्धादप्यन्धतमः कामी मोदते, यत आह- "दृश्यं वस्तु परं न पश्यति जग त्यन्धः पुरोऽवस्थितं, रागान्धस्तु यदस्ति तत्परिहरन् यन्नास्ति तत् पश्यति । कुन्देन्दीवर पूर्णचन्द्रकलशश्रीमल्लतापल्लवानारोप्याशुचिराशिषु प्रियतमागात्रेषु यन्मोदते ॥ १ ॥ " द्वेषं वा कर्कशशब्दादौ व्रजतीति, ततश्च मनोज्ञेतरशब्दादिविषयाः कषायाणां मूलस्थानं, ते च संसारस्येति गाथातात्पर्यार्थः ॥ यदि नाम शब्दादिविषयाः कषायाः कथं तेभ्यः संसार इति ?, उच्यते, यतः कर्म्मस्थितेः कषाया मूलं, साऽपि संसारस्य, संसारिणश्चावश्यंभाविनः कषाया इति, एतदेवाह - -जह सव्वपायवाणं भूमीए पट्टियाइं मूलाई । इय कम्मपायवाणं संसारपइट्टिया मूला ॥ १७७ ॥ यथा सर्वपादपानां भूमौ प्रतिष्ठितानि मूलानि, एवं कर्मपादपानां संसारे कषायरूपाणि मूलानि प्रतिष्ठितानीति गाथार्थः ॥ ननु च कथमेतच्छ्रद्धेयं-कर्म्मणः कषाया मूलमिति ?, उच्यते, यतो मिथ्यात्वाविरतिप्रमादकषाययोगा बन्धहे - तवः, तथा चागमः - "जीवे णं भंते! कतिहि ठाणेहिं णाणावरणिज्जं कम्मं बंधइ ?, गोयमा ! दोहिं ठाणेहिं, तंजहा - रागेण व दोसेण व । रागे दुबिहे - माया लोभे य, दोसे दुविहे - कोहे य माणे य । एएहिं चउहिं ठाणेहिं वीरिओवगृहिएहिं । जीवो भदन्त । कतिभिः स्थानैर्ज्ञानावरणीयं कर्म बनाति ?, गौतम । द्वाभ्यां स्थानाभ्यां तयथा-रागेण वा द्वेषेण वा । रागो द्विविधो माया लोभश्च, द्वेषो द्विविधः क्रोधव मानव, एतैश्चतुर्भिः स्थानैर्वीर्योपगूढैर्ज्ञानावरणीयं कर्म बनाति. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy