________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥८९॥
पस्य शैलेश्यवस्थान्त्यसमये कार्मणतैजसशरीरभव्यत्वानां चेति, अनाद्यपर्यवसानं धर्माधर्माकाशानामिति । गणना- ६ लोक.वि.२ स्थानमेकळ्यादिकं शीर्षप्रहेलिकापर्यन्तं । सन्धानस्थानं द्विधा-द्रव्यतो भावतश्च, पुनरप्येकैकं द्विधा-छिन्नाच्छिन्नभेदात् ,
उद्देशकः१ तत्र द्रव्यच्छिन्नसन्धान कञ्चकादेः, अच्छिन्नसन्धानं तु पक्ष्मोत्सद्यमानतन्त्वादेरिति, भावसन्धानमपि प्रशस्ताप्रशस्तभेदात् । द्वेधा, तत्र प्रशस्ताच्छिन्नभावसन्धानमुपशमक्षपकश्रेण्यामारोहतो जन्तोरपूर्वसंयमस्थानान्यच्छिन्नान्येव भवन्ति, श्रेणिव्यतिरेकेण वा प्रवर्द्धमानकण्डकस्येति, छिन्नप्रशस्तभावसन्धानं पुनरौपशमिकादिभावादौदयिकादिभावान्तरगतस्य पुन
रपि शुद्धपरिणामवतः तत्रैव गमनम् , अप्रशस्ताच्छिन्नभावसन्धानमुपशमश्रेण्याः प्रतिपततोऽविशुद्ध्यमानपरिणामस्यानशान्तानुबन्धिमिथ्यात्वोदयं यावत्, उपशमश्रेणिमन्तरेणापि कषायवशात् बन्धाध्यवसायस्थानान्युत्तरोत्तराण्यवगाहमानस्य
वा इति, अप्रशस्तच्छिन्नभावसन्धानं पुनरौदयिकभावादौपशमिकादिभावान्तरसङ्क्रान्तौ सत्यां पुनस्तत्रैव गमनमिति । इह द्वारद्वयं योगपोन व्याख्यातं, तत्र सन्धानस्थानं द्रव्यविषयमितरत्तु भावविषयमित्युक्तं स्थानम् ॥ अथवा भावस्थानं कषायाणां यत् स्थानं तदिह परिगृह्यते, तेषामेव जेतव्यत्वेनाधिकृतत्वात, तेषां किं स्थानं?, यदाश्रित्य च ते भवन्ति, शब्दादिविषयानाश्रित्य च ते भवन्तीति तद्दर्शयति
पंचसु कामगुणेसु य सद्दप्फरिसरसरूवगंधेसुं । जस्स कसाया वति मूलट्ठाणं तु संसारे ॥ १७६ ॥ Bा तत्रेच्छानङ्गरूपः कामस्तस्य गुणा यानाश्रित्यासौ चेतसो विकारमादर्शयति, ते च शब्दस्पर्शरसरूपगन्धास्तेषु पञ्च
स्वपि व्यस्तेषु समस्तेषु वा विषयभूतेषु 'यस्य' जन्तोर्विषयसुखपिपासोन्मुखस्यापरमार्थदर्शिनः संसाराभिष्वनिणो राग
SAKASEXAAAAAA
।।८९॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org