SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) लोक.वि.२ उद्देशकः१ ॥९ ॥ णाणावरणिज्ज कम्मं बंधई" एवमष्टानामपि कर्मणां योज्यमिति । ते च कषाया मोहनीयान्तःपातिनोऽष्टप्रकारस्य च ६ कर्मणः कारणं, मोहनीय कामगुणानां च (इति) दर्शयति ___अट्टविहकम्मरुक्खा सव्वे ते मोहणिजमूलागा । कामगुणमूलगं वा तम्मूलागं च संसारो ॥ १७८॥ यदवादि प्राक्-'इय कम्मपायवाणं' तत्र कतिप्रकाराः ते कर्मपादपाः किंकारणाश्चेति?, उच्यते, अष्टविधकर्म|वृक्षाः, ते सर्वेऽपि मोहनीयमूलाः, न केवलं कषायाः, कामगुणा अपि मोहनीयमूलाः, यस्माद्वेदोदयात् कामाः, वेदश्च मोहनीयान्तःपातीत्यतस्तन्मोहनीयं मूलम्-आद्यं कारणं यस्य संसारस्य स तथा इति गाथार्थः ॥ तदेवं पारम्पर्येण |संसारकषायकामानां कारणत्वान्मोहनीयं प्रधानभावमनुभवति, तत्क्षये चावश्यम्भावी कर्मक्षयः, तथा चाभाणि"जह मत्थयसूईए, हयाए हम्मए तलो । तहा कम्माणि हम्मंति, मोहणिजे खयं गए ॥१॥” तच्च द्विधा-दर्शनचारित्रमोहनीयभेदात्, एतदेवाह दुविहो अ होइ मोहो दंसणमोहो चरित्तमोहो अ। कामा चरित्तमोहो तेणऽहिगारो इहं सुत्ते ॥ १७९॥ मोहनीयं कर्म द्वेधा भवति, दर्शनमोहनीयं चारित्रमोहनीयं चेति, बन्धहेतोर्द्वविध्यात् , तथाहि-अर्हत्सिद्धचैत्यतपःश्रुतगुरुसाधुसङ्घप्रत्यनीकतया दर्शनमोहनीयं कर्म बध्नाति, येन चासावनन्तसंसारसमुद्रान्तःपात्येवावतिष्ठते, तथा तीव्रकषायबहुरागद्वेषमोहाभिभूतः सन् देशसर्वविरत्युपघाति चारित्रमोहनीयं कर्म बध्नाति, तत्र मिथ्यात्वसम्यग्मिथ्यात्वस १ यथा मस्तकसूच्या हतायां हन्यते तालः । तथा कर्माणि हन्यन्ते मोहनीये क्षयं गते ॥१॥ ॥९ ॥ Jain Education International For Personal & Private Use Only www.jalnelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy