SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ रम्भप्रवृत्तलोकनिश्रया विहर्तव्यमिति शेषः, तथा च सूत्रम्-'समुट्ठिए अणगारे' इत्यादि जाव परिवए' ५, षष्ठोद्देशके तु-'लोए अममिज्जया चेव' लोकनिश्रयाऽपि विहरता साधुना तस्मिन् लोके पूर्वापरसंस्तुतेऽसंस्तुते च न ममत्वं कार्य, पङ्कजवत्तदाधारस्वभावानभिष्वङ्गिणा भाव्यमिति, तथा च सूत्रम्-जे ममाईयमई जहाति से जहाति ममातियं' गाथातासर्यार्थः॥ नामनिष्पन्ने तु निक्षपे लोकविजय इति द्विपदं नाम, तत्र लोकविजययोनिक्षेपः कार्यः, सूत्रालापकनिष्पन्ने च निक्षेपे यानि निक्षेपार्हाणि सूत्रपदानि तेषां च निक्षेपः कार्यः, सूत्रपदोपन्यस्तमूलशब्दस्य च कषायाभिधायकत्वात् कषायाश्च निक्षेप्तव्याः, तदेवं नामनिष्पन्नं भविष्यत्सूत्रालापकनिष्पन्ननिक्षेपोपक्षिप्तं सामर्थ्यायातं च यन्निक्षेप्तव्यं तन्नियु|क्तिकारो गाथया सम्पिण्ड्याऽऽचष्टे लोगस्स य विजयस्स य गुणस्स मूलस्स तह य ठाणस्स । निक्खेवो कायव्वो जमूलागं च संसारो ॥१६४ ॥ | कण्ठया, केवलं 'जंमूलागं च संसार' इति यन्मूलकः संसारस्तस्य च निक्षेपः कार्यः, तच्च मूलं कषायाः, यतः नारकतिर्यग्नरामरगतिस्कन्धस्य गर्भनिषेककललार्बुदमांसपेश्यादिजन्मजरामरणशाखस्य दारिद्याद्यनेकव्यसनोपनिपातपत्रगहनस्य प्रियविप्रयोगाप्रियसम्प्रयोगार्थनाशानेकव्याधिशतपुष्पोपचितस्य शारीरमानसोपचिततीव्रतरदुःखोपनिपातफलस्य संसारतरोर्मूलम्-आद्यं कारणं कषायाः-कपः-संसारस्तस्याऽऽया इतिकृत्वा ॥ तदेवं यान्यत्र नामनिष्पन्ने यानि च सूत्रालापकनिष्पन्ने निक्षेप्तव्यपदानि सम्भवन्ति तानि नियुक्तिकारः सुहृद्भूत्वा विवेकेनाऽऽचष्टेलोगोत्ति य विजअत्ति य अज्झयणे लक्खणं तु निप्फण्णं । गुणमूलं ठाणंति य सुत्तालावे य निप्फण्णं ॥१६॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy