SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ श्रीआचा- कण्ठ्या, तत्र 'यथोद्देशस्तथा निर्देश'इति न्यायाल्लोकविजययोनिक्षेपमाह लोक.वि.२ राङ्गवृत्तिःलोगस्स य निक्खेवो अट्टविहो छविहो उ विजयस्स । भावे कसायलोगो अहिगारो तस्स विजएणं ॥१६६॥ उद्देशकः१ (शी०) तत्र लोक्यत इति लोकः, 'लोक दर्शन' इत्यस्माद्धातोः 'अकर्तरि च कारके संज्ञाया (पा. ३-३-१९) मिति घञ्, स च धर्माधर्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिकायात्मको वेति, तस्य निक्षेपोऽष्टधा-नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदात् , 'छब्विहो उ विजयस्स'त्ति विजयः । अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्विधो वक्ष्यते, तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह-भावे कसायलोगो'त्ति भावलोकेनात्राधिकारः, स च भावः षट्प्रकार औदयिकादिः, तत्राप्यौदयिकभावकषायलोकेनाधिकारः, तन्मूलत्वात् संसारस्य, यद्येवं ततः किमत आह-'अहिगारो तस्स विजएणं'ति अधिकारो-व्यापारः, तस्य-औदयिक|भावकषायलोकस्य 'विजयेन' पराजयेनेति गाथार्थः॥ तत्र लोकोऽष्टधा निक्षेपार्थ प्रागुपादेशि विजयश्च पोढा, तन्निक्षेपार्थमाहलोगो भणिओ व्वं खित्तं कालो अभावविजओ अ।भव लोग भावविजओ पगयं जह बज्झई लोगो १६ तत्र लोकश्चतुर्विंशतिस्तवे विस्तरतोऽभिहितः, ननु च केयं वाचो युक्तिः? 'लोकश्चतुर्विंशतिस्तवेऽभिहित' इति, किमत्राहै नुपपन्नम् ?, उच्यते, इह ह्यपूर्वकरणप्रक्रमाधिरूढक्षपकश्रेणिध्यानाग्निदग्धघातिकर्मेन्धनेनोत्पन्ननिरावरणज्ञानेन विपच्य मानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्द्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजायां परिषद्याचा dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy