SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी० ) ॥ ८२ ॥ तथा च नियुक्तिकारेणाध्ययनार्थाधिकारः शस्त्रपरिज्ञायां प्राग्निरदेशि – “ लोओ जह बज्झइ जह य तं विजहियन्वं”ति, | इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति । तत्र सूत्रार्थकथनमनुयोगः, तस्य द्वाराणि उपाया व्याख्याङ्गानीत्यर्थः, तानि चोपक्रमादीनि, तत्रोपक्रमो द्वेधा - शास्त्रानुगतः शास्त्रीयः लोकानुगतो लौकिक इति, निक्षेपस्त्रिधा - ओघनामसूत्रालापक निष्पन्नभेदात्, अनुगमो द्वेधा सूत्रानुगमो निर्युक्त्यनुगमश्च, नया-नैगमादयः । तत्र शास्त्रीयोपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधिकारश्च तत्राध्ययनार्थाधिकारोऽध्ययन| सम्बन्धे शस्त्रपरिज्ञायां प्रागेव निरदेशि, उद्देशार्थाधिकारं तु स्वयमेव नियुक्तिकारः प्रचिकटयिषुराह - सयणे य अद्दत्तं बीयगंमि माणो अ अत्थसारो अ । भोगेसु लोगनिस्साइ लोगे अममिज्जया चेव ॥ १६३ ॥ तत्र प्रथमोद्देश कार्थाधिकारः 'स्वजने' मातापित्रादिके अभिष्वङ्गोऽधिगतसूत्रार्थेन न कार्य इत्यध्याहारः, तथा च सूत्रम् - 'माया मे पिया मे' इत्यादि १, 'अददत्तं बीयमिति द्वितीय उद्देशके अदृढत्वं संयमे न कार्यमिति शेषः, विषयकषायादौ चादृढत्वं कार्यमिति, वक्ष्यति च - 'अरई आउट्टे मेहावी' २, तृतीय उद्देशके 'माणो अ अत्थसारो अत्ति जात्याद्युपेतेन साधुना कर्म्मवशाद्विचित्रतामवगम्य सर्वमदस्थानानां मानो न कार्यः, आह च - ' के गोआवादी ? के माणावादी' त्यादि, अर्थसारस्य च निस्सारता वर्ण्यते, तथा च- 'तिबिहेण जाऽवि से तत्थ मत्ता अप्पा वा बहुगा वे'त्यादि ३, चतुर्थे तु 'भोगेसु'त्ति भोगेष्वभिष्वङ्गो न कार्य इति शेषः, यतो भोगिनामपायान् वक्ष्यति, सूत्रं च - 'थीहिं लोए पञ्चहिए' ४, पञ्चमे तु 'लोगणिस्साए 'त्ति त्यक्तस्वजनधनमानभोगेनापि साधुना संयमदेहप्रतिपालनाय स्वार्था Jain Education International For Personal & Private Use Only लोक.वि. २ उद्देशकः १ ॥ ८२ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy