SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ नमः श्रीवर्द्धमानाय, वर्द्धमानाय पर्ययैः । उक्ताचारप्रपञ्चाय, निष्प्रपञ्चाय तायिने ॥ १ ॥ शस्त्रपरिज्ञाविवरणमतिगहनमितीव किल वृतं पूज्यैः । श्रीगन्धहस्तिमिश्रैर्विवृणोमि ततोऽहमवशिष्टम् ॥ २ ॥ उक्तं प्रथमाध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः - इह हि मिथ्यात्वोपशमक्षय क्षयोपशमान्यतरावाप्तसम्यग्दर्शनज्ञानकार्यस्यात्यन्तिकैकान्तानाबाधपरमानन्दस्वतत्त्वसुखानावरणज्ञानदर्शनलक्षणलक्षितमोक्षकारणस्याश्रवनिरोधनिर्जरारूपस्य मूलोत्तरगुणभेदभिन्नस्य चारित्रस्यापराशेषत्र तवृतिकल्पनिष्पादितनिष्प्रत्यूहसकलप्राणिगणसङ्घट्टनपरितापनापद्रावणनिवृत्तिरूपस्य संसिद्धये मरणाभावप्रसङ्गादभूतगुणात्मधर्म्मज्ञानोपलब्धेर्वार्हस्पत्यमतनिरासेन सामान्यतो जीवास्तित्वं प्रतिपाद्य विशेषतश्च बौद्धादिमतनिरासेनै केन्द्रियावनिवनानलपवनवनस्पतिभेदांश्च जीवान् प्रकटय्य यथाक्रमं | समानजातीयाश्मलताद्युद्भेददर्शनादर्शोमांसाङ्कुरवत् अविकृतभूमिखननोपलब्धेर्म्मण्डूकवत् विशिष्टाहारोपचयापचयशरीराभिवृद्धिक्षयान्वयव्यतिरेकगतेरर्भकशरीरवत् अपरप्रेरिताप्रतिहता नियततिरश्चीनगमनाद्गवाश्वादिवत् सालककनूपुरालङ्का|रकामिनीचरणताडनविकाराधिगतेः कामुकवदित्यादिभिः प्रयोगैः तथोच्चैः शिर उद्घाट्य सूक्ष्मबादरद्वित्रिचतुष्पचेन्द्रियसंज्ञीतरपर्याप्तक अपर्याप्तकभेदांश्च प्रदर्श्य शस्त्रं च स्वकायपरकाय भेदभिन्नं तद्वधे बन्धं विरतिं च प्रतिपाद्य पुनरपि तदेव चारित्रं यथा सम्पूर्ण भावमनुभवति तथाऽनेनाध्ययनेनोपदिश्यते, तथाहि —अधिगतशस्त्रपरिज्ञासूत्रार्थस्य तत्प्रतिपादितैकेन्द्रियपृथिवीकायादि श्रद्दधानस्य सम्यक् तद्रक्षापरिणामवतः सर्वोपाधिशुद्धस्य तद्योग्यतयाऽऽरोपितपञ्चमहाव्रतभारस्य साधोर्यथा रागादिकषाय लोकस्य शब्दादिविषयलोकस्य वा विजयो भवति तथाऽनेनाध्ययनेन प्रतिपाद्यते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy