________________
-
षमक्षतमव्यङ्गं व्यापाद्य तच्छरीरेण विद्यामन्त्रसाधनानि कुर्वन्ति उपयाचितं वा यच्छन्ति दुर्गादीनामग्रतः, अथवा विषं येन भक्षितं स हस्तिनं मारयित्वा तच्छरीरे प्रक्षिप्यते पश्चाद्विषं जीर्यति, तथा अजिनार्थ-चित्रकव्याघ्रादीन व्यापादयन्ति, एवं मांसशोणितहृदयपित्तवसापिच्छपुच्छवालशृङ्गविषाणदन्तदंष्ट्रानखस्नाय्वस्थ्यस्थिमिञ्जादिष्वपि वाच्यं, मांसाथै सूकरादयः, त्रिशूलालेखार्थ शोणितं गृह्णन्ति, हृदयानि साधका गृहीत्वा मश्नन्ति, पित्तार्थ मयूरादयः, वसाथै व्याघ्रमकरवराहादयः, पिच्छार्थ मयूरगृध्रादयः, पुच्छार्थ रोझादयः, वालार्थ चमर्यादयः, शृङ्गार्थ रुरुखड्गादयः, त|त्किल शृङ्गं पवित्रमिति याज्ञिका गृहणन्ति, विषाणार्थ हस्त्यादयः, दन्तार्थ शृगालादयःः तिमिरापहत्वात्तद्दन्तानां, दंष्ट्रार्थ वराहादयः, नखार्थ व्याघ्रादयः, स्नायवर्थ गोमहिष्यादयः, अस्थ्यर्थं शङ्खशुक्त्यादयः, अस्थिमिञ्जाथै महिषवराहा|दयः, एवमेके यथोपदिष्टप्रयोजनकलापापेक्षया घ्नन्ति, अपरे तु कृकलासगृहकोकिलादीन् विना प्रयोजनेन व्यापादयन्ति, अन्ये पुनः 'हिंसिसु मेत्ति' हिंसितवानेषोऽस्मत्स्वजनान्सिंहः सर्पोऽरिर्वाऽतो नन्ति, मम वा पीडां कृतवन्त इत्यतो हन्ति, तथा अन्ये वर्तमानकाल एव हिनस्ति अस्मान् सिंहोऽन्यो वेति नन्ति, तथाऽन्येऽस्मानयं हिंसिष्यतीत्यनागतमेव सादिकं व्यापादयन्ति ॥ एवमनेकप्रयोजनोपन्यासेन हननं त्रसविषयं प्रदर्श्य उद्देशकार्थमुपसञ्जिहीर्षराह
एत्थ सत्थं समारभमाणस्स इच्चेते आरंभा अपरिणाया भवंति, एत्थ सत्थं असमारभमाणस्स इच्चेते आरंभा परिणाया भवन्ति, तं परिणाय मेहावी व सयं तस१ विषाणार्थ शृगालादयः, दन्तार्थ हस्त्यादयः इति प्र०, परं 'विषाणं तु शृङ्गे कोलेभदन्तयोः' इत्यनेकार्थवचनान्नायमसुन्दर।.
dan Education International
For Personal & Private Use Only
www.janelibrary.org