________________
शस्त्र.परि१
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशकः७
॥७३॥
कायसत्थं समारंभेजा णेवऽण्णेहिं तसकायसत्थं समारंभावेज्जा णेवऽण्णे तसकायसत्थं समारंभंते समणुजाणेजा, जस्सेते तसकायसमारंभा परिणाया भवंति से हु मुणी
परिण्णायकम्मे (सू० ५४) तिबेमि ॥ इति षष्ठ उद्देशकः ॥ प्राग्वद्वाच्यं, यावत्स एव मुनिस्त्रसकायसमारम्भविरतत्वात् परिज्ञातकर्मत्वात्प्रत्याख्यातपापकर्मत्वादिति ब्रवीमि भगवतः त्रिलोकबन्धोः परमकेवलालोकसाक्षात्कृतसकलभुवनप्रपञ्चस्योपदेशादिति षष्ठोद्देशकः समाप्तः॥ | उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमः समारभ्यते, अस्य चायमभिसम्बन्धः-अभिनवधर्माणां दुःश्रद्धानत्वादल्पपरिभोगत्वादुत्क्रमायातस्योक्तशेषस्य वायोः स्वरूपनिरूपणार्थमिदमुपक्रम्यते-तदनेन सम्बन्धेनायातस्यास्योद्देशकस्योपक्रमादीनि | चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वायूद्देशक इति, तत्र वायोः स्वरूपनिरूपणाय कतिचिद्वारातिदेशगी नियुक्तिकृद्गाथामाह
___ वाउस्सऽवि दाराई ताई जाइं हवंति पुढवीए । नाणत्ती उ विहाणे परिमाणुवभोगसत्थेय ॥ १६४ ॥ PL वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादितानि, नानात्व-भेदः, तच्च विधानपरिमाणोप|भोगशस्त्रेषु, चशब्दाल्लक्षणे च द्रष्टव्यमिति ॥ तत्र विधानप्रतिपादनायाह
१ वद्भावनीय प्र.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org