________________
जीवाणं सव्वेसिं सत्ताणं अस्सायं अपरिनिव्वाणं महब्भयं दुक्खं तिबेमि, तसंति
पाणा पदिसो दिसासु य (सू० ५०) एवमिमं त्रसकायमागोपालाङ्गनादिप्रसिद्धं निश्चयेन ध्यात्वा निाय चिन्तयित्वेत्यर्थः, क्त्वाप्रत्ययस्योत्तरक्रियापेक्षत्वाद् ब्रवीमीत्युत्तरक्रिया सर्वत्र योजनीयेति । पूर्व च मनसाऽऽलोच्य ततः प्रत्युपेक्षणं भवतीति दर्शयति-पडिलेहेत्त'त्ति प्रत्युपेक्ष्य-दृष्ट्वा यथावदुपलभ्येत्यर्थः, किं तदिति दर्शयति-'प्रत्येक'मित्येकमेकं त्रसकार्य प्रति परिनिर्वाणंसुखं प्रत्येकसुखभाजः सर्वेऽपि प्राणिनः, नान्यदीयमन्य उपभुङ्क्ते सुखमित्यर्थः, एष च सर्वप्राणिधर्म इति दर्शयति-सर्वेषां प्राणिनां-द्वित्रिचतुरिन्द्रियाणां, तथा सर्वेषां भूतानां-प्रत्येकसाधारणसूक्ष्मबादरपर्याप्तकापर्याप्तकतरूणामिति, तथा सर्वेषां जीवानां-गर्भव्युत्क्रान्तिकसम्मूर्छनजौपपातिकपञ्चेन्द्रियाणां, तथा सर्वेषां सत्त्वानां-पृथिव्यायेकेन्द्रियाणामिति, इह च प्राणादिशब्दानां यद्यपि परमार्थतोऽभेदस्तथापि उक्तन्यायेन भेदो द्रष्टव्यः, उक्तं च-'प्राणा द्वित्रिचतुः प्रोक्ताः, भूतास्तु तरवः स्मृताः । जीवाः पञ्चेन्द्रियाः प्रोक्ताः, शेषाः सत्त्वा उदीरिताः॥१॥” इति, यदिवाशब्दव्युत्पत्तिद्वारेण समभिरूढनयमतेन भेदो द्रष्टव्यः, तद्यथा-सततप्राणधारणालाणाः कालत्रयभवनाद् भूताः |त्रिकालजीवनात् जीवाः सदाऽस्तित्वात्सत्त्वा इति, तदेवं विचिन्त्य प्रत्युपेक्ष्य च यथा सर्वेषां जीवानां प्रत्येक परिनिवर्णि-सुखं तथा प्रत्येकमसातम्-अपरिनिर्वाणं महाभयं दुःखमहं ब्रवीमि, तत्र दुःखयतीति दुःखं, तद्विशिष्यते-किं
1542525523
dan Education International
For Personal & Private Use Only
www.jainelibrary.org