________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥७१॥
विशिष्टम् ?-'असातम्' असद्वेद्यकौशविपाकजमित्यर्थः, तथा 'अपरिनिर्वाण मिति समन्तात् सुखं परिनिर्वाणं न परि- अध्ययन निर्वाणमपरिनिर्वाणं समन्तात् शरीरमनःपीडाकरमित्यर्थः, तथा 'महाभय'मिति महच्च तद्भयं च महाभयं, नातः परमन्यद् भयमस्तीति महाभयं, तथाहि-सर्वेऽपि शारीरान्मानसाच्च दुःखादुद्विजन्ते प्राणिन इति, इति शब्दएवमर्थे,
उद्देशकः६ एवमहं ब्रवीमि सम्यगुपलब्धतत्त्वो यत्प्रागुक्तमिति । एतच्च ब्रवीमीत्याह-'तसंती' त्यादि, एवंविधेन च असातादिविशेषणविशिष्टेन दुःखेनाभिभूतास्त्रस्यन्ति-उद्विजन्ति प्राणा इति प्राणिनः, कुतः पुनरुद्विजन्तीति दर्शयति-प्रगता दिक्8 प्रदिग्विदिक् इत्यर्थः, ततः प्रदिशः सकाशादुद्विजन्ति, तथा प्राच्यादिषु च दिक्षु व्यवस्थितास्त्रस्यन्ति, एताश्च प्रज्ञापकविधिविभक्ता दिशोऽनुदिशश्च गृह्यन्ते, जीवव्यवस्थानश्रवणात्, ततश्चायमर्थः प्रतिपादितो भवति काका-न काचिदिगनुदिग्वा यस्यां न सन्ति त्रसाः त्रस्यन्ति वा यस्यां स्थिताः कोशिकारकीटवत् , कोशिकारकीटो हि सर्वदिग्भ्योऽनुदिग्भ्यश्च बिभ्यदात्मसंरक्षाणार्थ वेष्टनं करोति शरीरस्येति, भावदिगपि न काचित्तादृश्यस्ति यस्यां वर्तमानो जन्तुर्ने त्रस्येत्, शारीरमानसाभ्यां दुःखाभ्यां सर्वत्र नरकादिषु जंघन्यन्ते प्राणिनोऽतस्त्रासपरिगतमनसः सर्वदाऽवगन्तव्याः॥ एवं सर्वत्र दिक्ष्वनुदिक्षु च त्रसाः सन्तीति गृह्णीमः, दिग्विदिग्व्यवस्थितास्त्रसास्त्रस्यन्तीत्युक्तं, कुतः पुनस्त्रस्यन्ति -यस्मा-|| तदारम्भवद्भिस्ते व्यापाद्यन्ते, किं पुनः कारणं?, ते तानारम्भन्त इत्यत आह
तत्थ तत्थ पुढो पास आतुरा परितावंति, संति पाणा पुढो सिया (सू० ५१) 'तत्र तत्र' तेषु तेषु कारणेषूत्पन्नेषु वक्ष्यमाणेषु अर्चाजिनशोणितादिषु च पृथग्विभिन्नेषु प्रयोजनेषु, पश्येति शिष्य-18
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org