SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ अध्ययन श्रीआचा-1 राङ्गवृत्तिः (शी०) उद्देशकः६ उपपातजाः, अथवा उपपाते भवा औपपातिका:-देवा नारकाच, एवमष्टविधं जन्म यथासम्भवं संसारिणो नातिवर्तन्ते, एतदेव शास्त्रान्तरे त्रिविधमुपन्यस्तं “सम्मूर्छनगर्भोपपाता जन्म" (तत्त्वार्थ०अ० २ सू० ३२) रसस्वेदजोद्भिजानां सम्मूर्छनजान्तःपातित्वात् अण्डजपोतजजरायुजानां गर्भजान्तःपातित्वात् देवनारकाणामौपपातिकान्त पातित्वात् इति त्रिविधं जन्मेति, इह चाष्टविधं सोत्तरभेदत्वादिति । एवमेतस्मिन्नष्टविधे जन्मनि सर्वे त्रसजन्तवः संसारिणो निपतन्ति, नैतद्व्यतिरेकेणान्ये सन्ति, एते चाष्टविधयोनिभाजोऽपि सर्वलोकप्रतीता बालाङ्गनादिजनप्रत्यक्षप्रमाणसमधिगम्याः, 'सन्ति च' अनेन शब्देन त्रैकालिकमस्तित्वं प्रतिपाद्यते त्रसानां, न कदाचिदेतैर्विरहितः संसारः सम्भवतीति, एतदेव दर्शयति-'एस संसारोत्ति पवुच्चति' एषः-अण्डजादिप्राणिकलापः संसारः प्रोच्यते, नातोऽन्यस्त्रसानामुसत्तिप्रकारोऽस्तीत्युक्तं भवति ॥ कस्य पुनरत्राष्टविधभूतग्रामे उसत्तिर्भवतीत्याह-.. __मंदस्सावियाणओ (सू० ४९) __ मन्दो द्विधा-द्रव्यभावभेदात्, तत्र द्रव्यमन्दोऽतिस्थूलोऽतिकृशो वा, भावमन्दोऽप्यनुपचितबुद्धिबोलः कुशास्त्रवासितबुद्धिवो, अयमपि सद्बुद्धेरभावाद्वाल एव, इह भावमन्देनाधिकारः, 'मन्दस्येति बालस्याविशिष्टबुद्धेः अत एव अविजानतो-हिताहितप्राप्तिपरिहारशून्यमनसः इत्येषोऽनन्तरोक्तः संसारो भवतीति ॥ यद्येवं ततः किमित्याह निज्झाइत्ता पडिलेहिता पत्तेयं परिनिव्वाणं सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं ॥७०॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy