________________
आ. सू. ११
Jain Education International
आज कट्टकम्मे गंधंगे वत्थ मल्ल जोए य । झावणवियावणेसु अ तिल्लविहाणे अ उज्जोए ॥ १४७ ॥ आतोद्यानि - पटहभेरीवंशवीणाझलर्यादीनि, काष्ठकर्म्म- प्रतिमास्तम्भद्वारशाखादि, गन्धाङ्गानि - बालकप्रियङ्गुपत्र कदमनकत्वक्कन्दनोशीरदेवदार्वादीनि, वस्त्राणि - वल्कलकार्पासमयादीनि, माल्ययोगा- नवमालिकाबकुलचम्पकपुन्नागाशोकमालतीविचकिलादयः, ध्मापनं दाहो भस्मसात्करणमिन्धनैः, वितापनं - शीताभ्यर्द्दितस्य शीतापनयनाय काष्ठप्रज्वालनात्, तैलविधानं तिलातसी सर्षपेङ्गुदीज्योतिष्मतीकरञ्जादिभिः, उद्योतो- वर्त्तितृणचूडाकाष्ठादिभिरिति ॥ एवमेतान्यु|पभोगस्थानानि प्रतिपाद्य तदुपसजिहीर्षुराह
एएहिं कारणेहिं हिंसंति वणस्सई बहू जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ १४८ ॥ 'एतैः' गाथाद्वयोपात्तैः कारणैः' प्रयोजनैः 'हिंसन्ति' व्यापादयन्ति प्रत्येकसाधारणवनस्पतिजीवान् बहून् वनस्पतिसमारम्भिणः पुरुषाः, किंभूतास्त इति दर्शयति- 'सातं' सुखं तदन्वेषिणः 'परस्य' वनस्पत्याद्येकेन्द्रियादेः 'दुःखं ' बाधामुत्सादयन्ति ॥ साम्प्रतं शस्त्रमुच्यते तच्च द्विधा द्रव्यभावभेदात्, द्रव्यशस्त्रमपि समासविभागभेदात् द्विधैव, तत्र समासद्रव्यशस्त्राभिधित्सयाऽऽह
कप्पणिकुहाणिअसियगदत्तियकुद्दालवासिपरसू अ । सत्थं वणस्सईए हत्था पाया मुहं अग्गी ॥ १४९ ॥ कल्प्यते - छिद्यते यया सा कल्पनी - शस्त्रविशेषः, कुठारी प्रसिद्धैव, असियगं-दात्रं दात्रिका - प्रसिद्धा, कुद्दालकवासिपरशवश्च, एते वनस्पतेः शस्त्रं, तथा हस्तपादमुखाग्नयश्च इत्येतत्सामान्यशस्त्रमिति ॥ विभागशस्त्राभिधित्सयाऽऽह
For Personal & Private Use Only
www.jainelibrary.org