________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥६०॥
पत्थेण व कुडवेण व जह कोइ मिणिज सव्वधन्नाई। एवं मविजमाणा हवंति लोया अणंता उ ॥ १४४॥
अध्ययनं १ __ प्रस्थकुडवादिना यथा कश्चित्सर्वधान्यानि प्रमिणुयात्, मित्वा चान्यत्र प्रक्षिपेद्, एवं यदि नाम कश्चित्साधारणजीवराशिं लोककुडवेन मित्वाऽन्यत्र प्रक्षिपेत् तत एवं मीयमाना अनन्ता लोका भवन्तीति ॥ इदानीं बादरनिगोदपरि
उद्देशकः५ माणाभिधित्सयाऽऽह
जे बायरपजत्ता पयरस्स असंखभागमित्ता ते । सेसा असंखलोया तिन्निवि साहारणाणंता ॥ १४५॥ __ ये पर्याप्तकबादरनिगोदास्ते संवर्तितचतुरश्रीकृतसकललोकमतरासङ्खयेयभागवर्तिप्रदेशराशिपरिमाणा भवन्ति, एते पुनः प्रत्येकशरीरबादरवनस्पतिपर्याप्तकजीवेभ्योऽसङ्खयेयगुणाः, शेषास्त्रयोऽपि राशयः प्रत्येकमसङ्खयेयलोकाकाशप्रदेशपरिमाणाः, के पुनस्त्रय इति?, उच्यन्ते, अपर्याप्तकबादरनिगोदा अपर्याप्तकसूक्ष्मनिगोदाः पर्याप्तकसूक्ष्मनिगोदाः, एते |च क्रमशो बहुतरका द्रष्टव्या इति, साधारणजीवास्तेभ्योऽनन्तगुणाः, एतच्च जीवपरिमाणं, प्राक्तनं तु राशिचतुष्टयं निगोदपरिमाणमिति ॥ परिमाणद्वारानन्तरमुपभोगद्वारमभिधित्सुराह
आहारे उवगरणे सयणासण जाण जुग्गकरणे य । आवरण पहरणेसु अ सत्यविहाणेसु अ बहुसुं ॥१४६॥ | आहारः-फलपत्रकिशलयमूलकन्दत्वगादिनिर्वर्त्यः, उपकरणं व्यजनकटककवलकार्गलादि, शयनं-खटाफलकादि, आ-18 सनम्-आसन्दकादि, यानं-शिबिकादि, युग्यं-गन्त्रिकादि, आवरणम्-फलकादि, प्रहरणं-लकुटमुसुण्ड्यादि, शस्त्रविधानानि च बहूनि तन्निवानि, शरदात्रखगक्षुरिकादिगण्डोपयोगित्वादिति॥ तथाऽपरोऽपि परिभोगविधिः, तद्दर्शनायाह
ति, साधारणजीवादरनिगोदा अपर्याप्रायः प्रत्येकमसङ्खयेयलो, एते ।
Jain Education International
For Personal & Private Use Only
wwwbar og