________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ६१ ॥
किंची सकायसत्थं किंची परकाय तदुभयं किंचि । एयं तु दव्वसत्थं भावे य असंजमो सत्थं ॥ १५० ॥ किञ्चित् स्वकायशस्त्रं- लकुटादि किञ्चिच्च परकायशस्त्रं - पाषाणाइयादि तथोभयशस्त्रं - दात्रात्रिकाकुठारादि, एतद् द्रव्यशस्त्रं, भावशस्त्रं पुनरसंयमः दुष्प्रणिहितमनोवाक्कायलक्षण इति ॥ सकलनिर्युक्त्यर्थपरिसमाप्तिप्रचिकटयिषयाऽऽहसेसाई दाराई ताईं जाईं हवंति पुढवीए । एवं वणस्सईए निज्जुन्ती कित्तिया एसा ॥ १५१ ॥ उक्तव्यतिरिक्तशेषाणि तान्येव द्वाराणि यानि पृथिव्यामभिहितानि ततस्तद्वाराभिधानाद्वनस्पतौ निर्युक्तिः 'कीर्त्तिता' व्यावर्णितेति ॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् —
तं णो करिस्सामि समुट्ठाए, मत्ता मइमं, अभयं विदित्ता, तं जे णो करए, एसोवरए, एत्थोवरए, एस अणगारेति पच्चई (सू० ३९ )
अस्य चानन्तरपरम्परादिसूत्रैः सम्बन्धः प्राग्वद्वाच्यः, उक्तं प्राक् 'सातान्वेषिणो हि वनस्पतिजन्तूनां दुःखमुदीरयन्ति, ततश्च तन्मूलमेव दुःखगहने संसारसागरे भ्राम्यन्ति सत्त्वाः' इत्येवं विदितकटुकविपाकः समस्तवनस्पतिसत्त्वविषयविमर्दनिवृत्तिमात्यन्तिकीमात्मनि दर्शयन्नाह - 'तत्' वनस्पतीनां दुःखमहं दृष्टप्रत्यपायो न करिष्ये, यदिवा तद्दुः| खोत्पत्तिनिमित्तभूतं वनस्पतावारम्भं - छेदनभेदनादिरूपं नो करिष्ये मनोवाक्कायैः, तथाऽपरैर्न कारयिष्ये, तथा कुर्व्वतश्चान्यान्नानुमंस्ये, किं कृत्वेति दर्शयति - सर्वज्ञोपदिष्टमार्गानुसृत्या सम्यक् प्रत्रज्योत्थानेनोत्थाय समुत्थाय प्रव्रज्यां
Jain Education International
For Personal & Private Use Only
अध्ययनं १
उद्देशकः ५
॥ ६१ ॥
www.jainelibrary.org