________________
S
AGARLSAGAROSAROSAROSAL
वनस्पतयो द्विविधाः-सूक्ष्मा बादराश्च, सूक्ष्माः सर्वलोकापन्नाश्चक्षु ह्याश्च न भवन्त्येकाकारा एव, बादराणां पुनद्वै विधाने ॥ के पुनस्ते बादरविधाने इत्यत आह
पत्तेया साहारण बायरजीवा समासओ दुविहा । बारसविहऽणेगविहा समासओ छब्विहा हंति ॥१२८॥ बादराः समासतः द्विविधाः-प्रत्येकाः साधारणाश्च, तत्र पत्रपुष्पमूलफलस्कन्धादीन् प्रति प्रत्येको जीवो येषां ते प्रत्ये-14 कजीवाः, साधारणास्तु परस्परानुविद्धानन्तजीवसङ्घातरूपशरीरावस्थानाः, तत्र प्रत्येकशरीरा द्वादशविधानाः, साधारणा-||2|| स्त्वनेकभेदाः, सर्वेऽप्येते समासतः षोढा प्रत्येतव्याः॥ तत्र प्रत्येकतरुद्वादशभेदप्रत्यायनायाहरुक्खा गुच्छा गुम्मा लया य वल्ली य पव्वगा चेव । तणवलयहरियओसहिजलरुहकुहणा य बोद्धव्वा ॥१२९॥
वृश्चयन्त इति वृक्षाः, ते द्विविधाः-एकास्थिका बहुबीजकाच, तत्रैकास्थिकाः-पिचुमन्दाम्रकोशम्बशालाङ्कोल्लपीलुशल्लक्यादयः, बहुबीजकास्तु-उदुम्बरकपित्थास्तिकतिन्दुकबिल्वामलकपनसदाडिममातुलिङ्गादयः, गुच्छास्तु-वृन्ताकीकर्पासीजपाआढकीतुलसीकुसुम्भरीपिप्पलीनील्यादयः, गुल्मानि तु-नवमालिकासेरियककोरण्टकबन्धुजीवकबाणकरवीर|सिन्दुवारविचकिलजातियूथिकादयः, लतास्तु-पद्मनागाशोकचम्पकचूतवासन्तीअतिमुक्तककुन्दलताद्याः, वयस्तु-कुष्माण्डीकालिङ्गीत्रपुषीतुम्बीवालुङ्कीएलालुकीपटोल्यादयः, पर्वमाः पुनः-इक्षुवीरणशुण्ठशरवेत्रशतपर्ववंशनलवेणुकादयः, तृणानि तु-श्वेतिकाकुशदर्भपर्वकार्जुनसुरभिकुरुविन्दादीनि, वलयानि च-तालतमालतक्कलीशालसरलाकेतकीकदलीक
१ शतपत्री. प्र. २ वर्चका. प्र.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org