________________
श्रीआचाङ्गवृत्तिः
(शी०)
॥ ५६ ॥
कायसमारम्भा ज्ञपरिज्ञया ज्ञाता भवन्ति प्रत्याख्यानपरिज्ञया च परिहृता भवन्ति स एव मुनिः परमार्थतः परिज्ञातकमेति ब्रवीमीति पूर्ववत् । इति शस्त्रपरिज्ञायां चतुर्थोद्देशकटीका समाप्ता ॥
उक्तश्चतुर्थोद्देशः, साम्प्रतं पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोदेशके तेजस्कायः प्रतिपादितः, तदनन्तरमविकलसुसाधुगुणप्रतिपत्तये क्रमायातवायुकायप्रतिपादनावसरे वनस्पतिकायजीवस्वरूपमाविर्भाव्यते, किं पुनः क्रमोल्लङ्घनकारणमिति, उच्यते, एष हि वायुरचाक्षुषत्वाद्दुः श्रद्धानः, अतः समधिगताशेषपृथिव्याद्ये केन्द्रियप्राणिगणस्वरूपः शिष्यः सुखमेव वायुजीवस्वरूपं प्रतिपत्स्यते स एव च क्रमो येन शिष्याः जीवादितत्त्वं प्रति प्रोत्सहन्ते यथावप्रतिपत्तुमिति, वनस्पतिकायस्तु समस्तलोकप्रत्यक्षपरिस्फुटजीवलिङ्गकलापोपेतः, अतः स एव तावत्प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्य चत्वार्यनुयोगद्वाराणि वाच्यानि यावन्नामनिष्पन्ने निक्षेपे वनस्पत्युद्देशकः, तत्र वनस्पतेः स्वभेदकला|पप्रतिपादनाय पूर्वप्रसिद्धार्थातिदेशद्वारेण निर्युक्तिकृदाह
पुढवीए जे दारा वणसइकाएऽवि हुंति ते चेव । नाणत्ती उ विहाणे परिमाणुवभोगसत्थे य ॥ १२६ ॥ यानि पृथवीकायसमधिगतये द्वाराण्युक्तानि तान्येव वनस्पतौ द्रष्टव्यानि, नानात्वं तु प्ररूपणापरिमाणोपभोगशस्त्रेषु चशब्दालक्षणे च द्रष्टव्यमिति ॥ तत्रादौ प्ररूपणा स्वरूपनिर्ज्ञापनायाह| दुविह वणस्सइजीवा सुहुमा तह बायरा य लोगंमि । सुहुमा य सव्वलोए दो चैव य बायरविहाणा ॥ १२७ ॥ ४
॥ ५६ ॥
Jain Education International
अध्ययनं १
उद्देशकः ५
For Personal & Private Use Only
www.jainelibrary.org