________________
| दुष्प्रणिहितमनोवाक्कायोऽग्निशस्त्रसमारम्भकतया प्राणिनां दण्डहेतुत्वाद्दण्डः प्रकर्षेणोच्यते प्रोच्यते, आयुर्धृतादिव्यपदेशवदिति ॥ यतश्चैवं ततः किं कर्त्तव्यमित्यत आह
तं परिणाय मेहावी इयाणिं णो जमहं पुव्वमकासी पमाएणं ( सू० ३५ )
'तम्' अग्निकायसमारम्भं दण्डफलं परिज्ञाय ज्ञपरिज्ञाप्रत्याख्यानपरिज्ञाभ्यां 'मेधावी' मर्यादाव्यवस्थितो वक्ष्यमा - णप्रकारेण व्यवच्छेदमात्मन्याचिनोतीति । तमेव प्रकारं दर्शयितुमाह - 'इयाणी' त्यादि, यमहमग्निसमारम्भं विषयप्रमादेनाकुलीकृतान्तःकरणः सन् पूर्वमकार्ष तमिदानीं जिनवचनोपलब्धाग्नि समारम्भदण्डतत्त्वः नो करोमीति ॥ अन्ये त्वन्यथावादिनोऽन्यथाकारिण इति दर्शयितुमाह
लज्जमाणा पुढो पास-अणगारा मोति एगे पवदमाणा जमिणं विरूवरूवेहिं सत्थे हिं अगणिकम्मसमारम्भेणं अगणिसत्थं समारभमाणे अण्णे अणेगरूवे पाणे विहिंसंति । तत्थ खलु भगवता परिण्णा पवेदिता, इमस्स चैव जीवियस्स परिवंदणमाणणपूयणाए जाइमरणमोयणाए दुक्खपडिघायहेउं से सयमेव अगणिसत्थं समारभइ : अण्णेहिं वा अगणिसत्थं समारंभावेइ अण्णे वा अगणिसत्थं समारभमाणे समणुजा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org