SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥५४॥ णइ, तं से अहियाए तं से अबोहियाए से तं संबुज्झमाणे आयाणीयं समुट्ठाय ता अध्ययनं १ सोचा भगवओ अणगाराणं इहमेगेसिं णायं भवति-एस खल्लु गंथे एस खलु मोहे उद्देशकः४ एस खलु मारे एस खलु णरए, इच्चत्थं गहिए लोए जमिणं विरूवरूवेहिं सत्येहिं अगणिकम्मसमारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ (सू० ३६) अस्य ग्रन्थस्योक्तार्थस्यायमर्थो लेशतः प्रदर्श्यते-'लज्जमानाः' स्वागमोक्तानुष्ठानं कुर्वाणाः सावद्यानुष्ठानेन वा लज्जां| कुर्वाणाः 'पृथग्' विभिन्नाः शाक्यादयः पश्ये ति संयमानुष्ठाने स्थिरीकरणार्थ शिष्यस्य चोदना, अनगारा वयमित्येके प्रवदमानाः, किं तैर्विरूपमाचरितं येनैवं प्रदय॑न्त इति दर्शयति यदिदं विरूपरूपैः शस्त्रैरग्निकर्मसमारम्भेण अग्निशस्त्रं समारभमाणः सन्नन्याननेकरूपान् प्राणिनो विहिनस्ति, तत्र खलु भगवता परिज्ञा प्रवेदिता, यथाऽस्यैव परिफल्गुजीवितस्य परिवन्दनमाननपूजनार्थ जातिमरणमोचनार्थ दुःखप्रतिघातहेतुं यत्करोति तदर्शयति-'स' परिवन्दनाद्यर्थी स्वत एवाग्निशस्त्रं समारभते तथा अन्यैश्चाग्निशस्त्रं समारम्भयति तथाऽन्यांश्च अग्निशस्त्रं समारभमाणान् समनुजानीते, तच्चाग्नेः समारम्भणं 'से' तस्य सुखलिप्सोरमुत्रान्यत्र चाहिताय भवति, तथा तदेव च तस्याबोधिलाभाय भवति, 'स' इति यस्यैतदसदाचरणं प्रदर्शितं, स तु शिष्यस्तदग्निसमारम्भणं पापायेत्येवं सम्बुध्यमान 'आदानीय' ग्राह्यं सम्यग्दर्शनादि 'सम्य- ॥५४॥ गुत्थाय' अभ्युपगम्य श्रुत्वा भगवदन्तिकेऽनगाराणां वा इहैकेषां साधूनां ज्ञातं भवति, किम् ?, तद्दर्शयति-'एष' Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy