________________
श्रीस्वार्थहरि०
1198 11
Jain Education International
सूत्रोक्तक्षयोपशमहेतुः पतिधस्तियङनराणामवधिरिति सूत्रसमुदायार्थः, अवयवार्थ त्वाह भाष्यकारः अवयवोलिंगितेन, तत्र 'यथोक्तनिमित्त' मिति (पृ. २२-१२) यथोक्तं निमित्तं यस्य स तथा भवोऽप्युक्तमेव निमित्तमिति तद्व्यावृत्यर्थमाह- 'क्षयोप| शमनिमित्त इत्यर्थः ' क्षयोपक्षमः पूर्ववत् स निमित्तं यस्य स तथा क पुनरिदमुक्तं निमित्तं ?, अधिकारे ज्ञानाज्ञानदर्शन( दानादि) लब्धयः इत्यत्र य इहावधिशब्दः प्रकृतज्ञानविशेषणमिति । एतदाह- 'तदेनदि 'त्यादि, तदिति पुरस्ताद्यदादिष्टं तत् अवधिज्ञानं, किम्भूतमित्याह-क्षयोपशमनिमित्तं, नेतरत् भवप्रत्ययिकम्, (किमिति) आह- 'पड़िधं भवति' क्षयोपशमस्य षड्विधत्वात् केषामित्याह- 'शेषाणा 'मिति, एतदेव व्याचष्टे - 'शेषाणा' मित्यादिना, शेषाणामित्युपर्युक्तवर्जितानां, उपर्युक्ताच नारकदेवा इत्याह- 'नारकदेवेभ्यः शेषाणा' मिति, ते च नान्य इत्याह- ' तिर्यग्योनिजानां मनुष्याणां च' चशब्द एतेषामेव गर्भजत्वादिविशेषणार्थः, तदन्येषामवधिज्ञानायोगात्, तथैतत् षडिधमुपाधिभेदात्, तथा चाह- 'अवधिज्ञाने' त्यादिना, अवधिज्ञानस्य-प्रागुक्तखरूपस्यावरणीयम् - आच्छादकं यत् कर्म - भास्करस्येवाश्रादि तस्य क्षयोपशमाभ्याम् उक्तस्वरूपाभ्यां समुदिताभ्यामेव, नकॅकस्मात् क्षयादेः, भवत्यवधिविज्ञानं, 'षड़िधं' पद्मकारं, 'तद्यथे 'ति प्रकारोपन्यासार्थः, 'अनानुगामिक'मित्यादि, उपन्यस्य चार्थं कथयति - 'नात्रे' त्यादिना, 'तत्र'तेषु षट्सु 'अनानुगामिकं' अनुगच्छत्यवश्य मनुगामि तदेवानुगामिकमांद्यथं अनुगमप्रयोजनं वा अनुगामिकं तस्य प्रतिषेधेऽनानुगामिकमिति, अर्थमस्य भावयति- 'यत्रे' त्यादिना, यत्र क्षेत्रे प्रतिश्रयस्थानादौ ' स्थितस्ये 'ति कायोत्सर्गक्रियादिपरिणतस्य' उत्पन्नम् उद्भूतं भवति, तेन चोत्यनेन यावत्तस्मात् स्थानात् न निर्याति तावजानात्यर्थान् ततः प्रक्रान्त (च्युत) स्य- स्थानान्तरवर्त्तिनः 'प्रतिपतति' नश्यति, कथमित्र १, उच्यते- 'प्रइनादेश
For Personal & Private Use Only
शेषावधिः
।। ७९ ।।
www.jainelibrary.org