SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीतच्चार्थहरि० 1| 20 || Jain Education International पुरुषज्ञानवत्' प्रश्नं प्रच्छनं जीवधातुमृलानां तं प्रश्नमादिशतीति प्रश्नादेशः प्रश्नादेशश्वासौ पुरुषश्चेति विग्रहस्तस्य ज्ञानं तेन तुल्यमेतद् दृश्यं, पुरुषप्रश्नादेशज्ञानवदित्येवं गमकत्वं अथवा प्रश्नादेशः- प्रधानपुरुषः तन्निष्टः- तत्परायणस्तस्य ज्ञानं तद्वदिति का पुनर्भावना ?, यथा नैमित्तिकः कश्विदादिशन् कस्मिँश्विदेव स्थाने शक्नोति संवादयितुं, न सर्वत्र, पृच्छ्यमानमर्थम्, एवं | तदप्यवधिज्ञानं यत्र स्थितस्योपजातं तत्रस्थ एवोपलभते तेन, नान्यत्रेति, 'अनुगामिकम् एतद्विपरीतमिति, यत्र क्वचिदाश (श्र) यादुत्पन्नं ततस्तस्य क्षेत्रान्तरगतस्यापि न नि ( प्रति. मु. ) पतति न प्रच्यवते, भास्करप्रकाशवत्, आदित्यप्रकाशो हि तदनुयायीति प्रतीनं, क्षेत्रान्तरे तत्परोक्षतया संदेहात् प्रत्यक्षं निदर्शनान्तरमाह-'घटरक्तभाववच्च' न हि घटस्यापाकात् समुपजातो रक्तभावः गृहादेस्तडागादिगतस्यापि प्रतिपतति, 'हीयमानक' हीयते - क्रमेण अल्पीभवति यत् तद्धीयमानकं, ' असङ्ख्येयेषु' अतिक्रान्तशीर्षप्रहेलिका गणितेष्वितियावत् द्वीपा - जम्बूद्धीपादयः (तेपु) समुद्रा-लवणादयः तेषु 'पृथिवीषु ' च रत्नप्रभादिकामु विमानेषु ज्योतिविमानादिषु, निर्यग् द्वीपसमुद्रेषु ऊर्द्ध विमानेषु अधः पृथिवीषु यदवधिज्ञानमुत्पन्नं भवति तत् क्रमशः | संक्षिप्यमाणं प्रतिपतति सर्वान् द्वीपान् पश्यन् स तेषामेकांशं पुनर्न प्रेक्षते, शेषं पश्यति, पुनर्द्वियोजनं न पश्यत्येवं क्रमेण हीय|मानं तावद्धीयते यावदकुलासंख्येयभागः शेषः, तदाह- 'आअंगुलस्यासङ्गश्रेय भागात् ' अङ्गुलपरिमाणस्य क्षेत्रस्य असं येयानि खण्डानि कृतस्य एकस्मिन् असंख्येयभागे यावन्ति द्रव्याणि समवस्थितानि तानि पश्यतीत्यर्थः, ततः कदाचिदवतिष्ठते कदाचित्प्रतिपतत्येव, तान्यपि न पश्यतीत्यर्थः अङ्गुलशब्दस्य परिभाषितोऽर्थो द्रष्टव्यः, अन्यथा अङ्गुलसंख्येयभागादि भवितव्यं, | अन्येषां त्वेवंविधं भाष्यमिति, कथं हीयत इति चेद् दृष्टान्तमुपन्यस्यति - 'परिच्छिन्ने' त्यादि, परितः - सर्वासु दिक्षु छिन्ना परि For Personal & Private Use Only "पड़भेदा: ॥ ८० ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy