SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ . Imag श्रीनव.र्थहरि० लक्ष्यमाणो द्विविधोऽवधिरिति ॥ सूत्रान्तरसम्बन्धमाह--'तत्र'तयोरुद्घटितयोर्भेदयोराद्यस्ताबदुच्यते, तमाह | भवप्रत्ययः भवप्रत्ययो नारकदेवानामिति ॥२२॥ सूत्रं ॥ अवधिरिति वर्तते, सूत्रसमुदायार्थः प्रकटः, अवयवार्थमाह भाष्यकार:--' नारकाणा'मित्यादिना (पृ. २२-७) नरकाःसीमन्तादयस्तेषु भवाः प्राणिनस्तीबदुःखभाजो नारकास्तेषां, तथा दीव्यन्त इति देवाः-भवनवास्यादयः प्रधानसुखभाजः प्राणिन एव तेषां, 'यधास्व 'मिति यथा स्वान्मीयं यस्य यत् स्वक्षेत्रादि नियतं गव्यूतपंचविंशतियोजनादिमानमित्यर्थः, किमिन्याह ?-|| |'भवप्रत्ययं भवकारणमवधिज्ञानं भवतीति, क्षायोपशमिकत्वादवधर्भवस्य कारणत्वमपश्यतः मा भृत् प्रत्ययशब्दो ज्ञानवचन इति |विभ्रमः,स्वयमेव व्याचष्टे-'भवप्रत्ययं भवहेतुकं भवनिमित्त'मित्यर्थः, कारणवचन एवायं प्रत्ययशब्द इति भावः, आह - कथमौदयिको भावोऽस्य कारणं ?, क्षायोपशमिकमेतदिति सुप्रतीतं?, उच्यते, सत्यमेतत् , किन्तु तस्मिन्नेव क्षयोपशम एवावश्यं | भावीत्येवमुच्यते, एतदेवाह-'तेषां ही'त्यादि, तेषां-नारकदवानां यस्माद्भवोत्पत्तिरेवेति, उत्पत्तिशब्दः सत्तावचनो, भवसत्तैव, | नान्यत् किंचित् 'तस्य हेतुर्भवतीति तस्येति-निश्चयतो ज्ञानाव्यभिचारिणः क्षयोपशमस्य व्यवहारतस्तु ज्ञानस्यैव कारणं भव|तीति, निदर्शनमाह-पक्षिणा'मित्यादिना, पक्षिणा-हंसादीनामाकाशगमनवत् , यचैषामाकाशगमनं, तच्छक्तस्तद्भव एव निय|मभावात् भवोत्पत्तिरेव हेतुः, न शिक्षा-अन्योपदंशरूपा, तथा 'न तपः' अनशनादिलक्षणं, तद्वन्नरकदवानामप्यवधेरिति भावः ।। | 'द्विविधोऽवधि रिन्युक्तं, तत्रैक भेदमभिधायाधुना द्वितीयमभिधातुमाह ॥ ७८ ॥ यथोक्तनिमित्तः षडिकल्पः शेषाणाम् ॥२३॥ सूत्रं ॥ ॥ ७८॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy