________________
श्रीतचार्थहरि०
अंगोपांगादि भेदः
यद् उक्तं -प्रतिपादितं सन् मातृकापदादिरूपेण 'भगवच्छिष्य'रिति तीर्थकरशिष्यः, ते च सामान्यपुरूषा अपि भवन्त्यत आह'अतिशयवद्भिः विशिष्टशक्तियुक्तः, एतेऽपि वैक्रिया अपि भवंत्यत आह-'उत्तमातिशय'इत्यादि, उत्तमा अतिशया:--प्रधाना| अप्रमादादयः चात्थुषु (वाक् च इक्षु )मधुरा बुद्धिः बीजकाष्ठादिरूपा आभिः उत्तमातिशयवाग्वुद्धिभिः सम्पन्नः-समन्वितैः, करित्याह-'गणधरै'रिति साध्वादिगणधारिभिः यद् दृन्धं-रचितं तदङ्गम्-आचारादि, तदन्यकृतमङ्गबाह्यमित्येतदाह| 'गणधरानन्तर्यादिमिस्त्वि'त्यादिना, गणधरा-गौतमादयः तेपामनन्तरे ये माधवस्तेऽनन्तर्यास्तेषां शिष्या जम्नामादयः ते आदियेषां प्रभवादीनां ते गणधरानन्तर्यादयस्तः, पुनः किम्भूतरित्याह-'अत्यन्त विशुद्धागमैः' अत्यन्तं निर्मलागमः, त एव विशेष्यन्ते-'परमप्रकृष्टवाइमतिशक्तिभि'रिति वाग् अग्राम्या मतिः-औत्पत्तिक्यादिः चतुर्विधा शक्तिः-ग्रन्थकरणलब्धिः | परमाः उत्तमा प्रकष्टा:-तजातावपि श्रेष्ठाः वाङ्मतिशक्तयो येषां ते तथाविधास्तः, 'आचार्य'रिति ज्ञानाद्याचारानुष्ठायिभिः, किमित्याह-कालसंहननायुर्दोषादि ति दुप्पमच्छेवट्ठवर्षशतजीवितापराभवात् अल्पशक्तीनां शिष्याणां,कालदोषात् ह्येते अल्पशक्तयो भवन्ति, अत एतदनुग्रहाय-उपकारायाल्पैनैव ग्रन्थेन तत्त्वमूहिष्यत इति मन्यमानैर्यत्प्रोक्तमनन्तरोदितगुणैराचार्यदशवकालिकादि तदङ्गवाद्यमिति, अत एव च मतेरेतन्महाविषयमित्याह-'सर्वज्ञेत्यादिना, सर्वज्ञप्रणीतत्त्वात् तीर्थकरोपदिष्टत्वात् तथा आनन्त्यत्वात् विज्ञेयस्य श्रुतज्ञानसम्बन्धिनः,किमित्याह-'मतिज्ञानात्' साम्प्रतकालविपयनया (अल्पविषय| शापकात् श्रुतज्ञानं त्रिकालविषयतया महाविषयं), अनेकार्थपरिच्छेदीत्यर्थः, तस्य चैवंविधस्य श्रुतस्य महाविषयत्वात् कार*णात् साँस्तानर्थान् जीवादीनधिकृत्य प्रकरणसमात्यपेक्षं विवक्षिताधिकारनिष्ठापेक्षं, किमित्याह--'अंगोपाङ्गनानास्वमिति,
।। ७५॥
Jan Education international
For Personel Private Use Only