SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ श्रीतवार्थ हरि० है अर्था-रूपादिस्तस्य ग्राहक परिच्छेदकं, नोइन्द्रियनिमित्तविशिष्टपर्यालोचनात्मकत्वाच्छुतस्य, आह उत्पन्नाद्यर्थग्राहकमित्येतावदेव वाच्यं, अस्य त्रिकालविषयाव्यभिचारित्वात् , न, उत्पन्नादिभेदापेक्षया व्यभिचारासिद्धः,न हि प्रत्येकमुत्पन्नादि ज्ञानं त्रिका-४ | अंगप्रविष्ट | लगोचरमिति, अतस्तस्य कथंचिदेकत्वख्यापनपरं त्रिकाल विषयग्रहणं । 'अत्राहे त्यादि, अत्र प्रस्तावे आह चोदकः गृहीमोजानीमस्तत् पूर्वपृष्टं मतिज्ञानश्रुतज्ञानयो नात्वं, अथ श्रुतज्ञानस्य प्रस्तुतस्य द्विविधमनेकद्वादशविधमित्येवं भूयः किंकृतः प्रतिविशेषो-भेदः, सर्व तद्रव्यश्रुतमोघतो भावश्रुतस्य कारणमित्यभिप्रायः,सिद्धान्तवाद्याह-'अत्रोच्यते वक्तविशेषादि'ति, वक्तारः तस्य ग्रन्थराशनिबन्धकास्तेषां विशेषो-भेदस्तस्माद् द्वैविध्यमिति द्विविधत्वं, एतदेव दर्शयति-'यद्भगवद्भिरित्या| दिना, भगवद्भिरित्यैश्वर्यादिगुणान्वितः 'सर्व'रिति सर्वद्रव्यपर्यायान् विशेषतो जानानः, सर्वदशिभि'रिति तान्येव सामान्यतः पश्यद्भिः, परमर्षिभि'रिति केवलिप्रधानः 'अर्हद्भिरिति पूजां त्रिदशादीनामर्हद्भिर्यदुक्तमिति सम्बन्धः, किमर्थ कृतकृत्यरक्तमित्याह-'तथास्वाभाव्यादिति, तेषामेष एव स्वभावो यतस्ते सर्वाकार (सर्वदेव) परहितरता इति, अथवा न कृतकृत्या एवेति हेत्वंतरमाह-'परमशुभस्य चे'त्यादिना, इह तीर्थकरनामकर्म विशेष्यं वर्तते, परमं च तच्छुभं च परमशुभं, नातोऽन्यत् | शुभतरमस्ति, तस्मिन्नभ्युदितेऽन्या असातादिकाः प्रकृतयः उदिता अपि न स्वविपाकप्रकर्ष प्रदर्शयितुं क्षमाः, क्षीरपूरितकुम्भे निंबरसबिन्दुवत्तस्य, एतदेव विशेष्यते-'प्रवचने'त्यादिना, प्रवचनं-द्वादशाङ्गं गणिपिटकं ततोऽनन्यवृत्तिर्वा सङ्घस्तस्य, प्रवचनस्य प्रतिष्ठापनं फलं-प्रयोजनमस्य तत् प्रवचनप्रतिष्ठापनफलं तस्य, तीर्थ तदेव गणिपिटकं संघः सम्यग्दर्शनादित्रयं वा तत् कुर्वन्ति | -उपदिशन्ति ये ते तीर्थकरास्तन्नामयति-करोति यत्तीर्थकरनाम तस्यानुभावात्-पश्चाविपाकात् इत्यर्थः, अतस्तस्मादनुभावाद् | अहद्भि'रिति पूजापतो जानानः, सर्वदायद्भगवद्भिरित्य एवेति हेत्वंतरावस्वाभाव्यादिति ।। ७४॥ ॥७४॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy