________________
E
अंगप्रविष्टं
| पन्यस्तं तत् द्वादशविधं, तद्यथा आचार'इत्यादि,आचारो ज्ञानादियंत्र कथ्यते स आचारः, सूत्रीकृताः अन्नानिकादयो यत्र वादिश्रीतचार्थ-10 नस्तत् सूत्रकृतं, यत्रकादीनि पर्यायान्तराणि वर्ण्यन्ते तत् स्थानं, सम्यगवायनं वर्षधरनद्यादिपर्वतानां यत्र स समवायः, व्याख्याहरि० या जीवादिगताया यत्र नयद्वारेण प्ररूपणा क्रियते सा व्याख्याप्रज्ञप्तिः, ज्ञाता-दृष्टान्तास्तानुपादाय धर्मो यत्र कथ्यते तज्ज्ञातधर्म
कथा, उपासकैः--श्रावकैरेवं स्थातव्यमिति येष्वध्ययनेषु दशसु वर्ण्यते ता उपासकदशाः, अन्तकृतः-सिद्धाः ते यत्र ख्याप्यन्ते वर्द्धमानस्वामिनस्तीर्थे एतावन्त इत्येवं सर्वतीर्थकृतांता अन्तकृद्दशाः,अनुत्तरोपपातिका देवा यासु ख्याप्यन्ते ता अनुत्तरोपपातिकदशाः, प्रश्नितस्य जीवादेर्यत्र प्रतिवचनं भगवता दत्तं तत् प्रश्नव्याकरणं, विपाकः कर्मणामनुभवस्तं सूत्रयति यत्र तद्विपाकसूत्रं, दृष्टी| नाम्--अज्ञानिकादीनां यत्र प्ररूपणा कृता स दृष्टिवादः, तामांवा यत्र पातः । अत्रावसरे चोदक आह-'मतिज्ञानश्रुतज्ञानयो'रनन्तरोदितयोः कः प्रतिविशेषः ? परोक्षत्वाद्यविशेषादिति प्रष्दुरभिप्रायः, सिद्धान्तवाद्याह-'अप्रोच्यते "उत्पन्ने त्यादि, उत्पन्न इति स्वेन रूपेण(क्रियया)वा जातः,न तु उत्पद्यमानः, स चातीतो विनष्टोऽपि भवत्यत आह- विनष्ट'इत्यप्रत्युतः अर्थी-रूपादिः | तस्य ग्राहक परिच्छेदकं, एतच्च कालान्तरस्थायित्पन्नाविनष्टेवप्यर्थेषु व्यवहारतत्रिकालगोचरमपि सम्भवत्यत आह-'साम्प्रत
कालविषय 'मिति वर्तमानकालविषयमित्यर्थः, स्मृतेरतातविषयत्वान्न सर्वमेवंविधमिति चेत्, न, माम्प्रतकालगृहीताति
|रिक्तस्य कस्यचिदस्मरणात् , पूर्वदृष्टस्य. कालान्तरदर्शनबच्चास्याः प्रामाण्यमिति ‘मतिज्ञान 'मिति मतिज्ञानमेवंविधं भवति,16 ॥७३॥
'श्रुतज्ञानं वि'त्यादि, तुशब्दो मतिज्ञानादस्य भेदप्रदर्शनार्थः, तथा चाह-'त्रिकालविषय 'मिति त्रिकालगोचरं, मा भृद्विपयाभेद एवेत्याह-'उत्पनविनष्टानुत्पन्नार्थग्राहक मिति उत्पनो-वर्तमानः विनष्टः-अतिक्रान्तः अनुत्पन्नो-भावी
। ७३॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org