________________
श्रीतधार्थ
हरि०
| त्वादीहादीनां, तद्द्वारेणव संश्लेषे प्रवृत्तेरिति,अन्ये तु व्याचक्षते-व्यञ्जनं शब्दाद्याकारपरिणताः पुद्गला एव, विशिष्टार्थावग्रहका
अप्राय्यका| रित्वाद् , तस्याग्रह एड भवति, अर्थावग्रहदोधाभिमुख्यकारि तेषां स्वीकरणमित्यर्थः, नेहादय इति,स्वांशे भेदमार्गणनिश्चयधार--
रिता णाख्ये, तासां नियतत्वात् , 'पर्व'मित्यादि, एवमनन्तरोदितसूत्रद्वयाभिहितेन प्रकारेण 'द्विविधों' द्विप्रकारोऽवग्रहः, विषयभेदाद् 'द्वैविध्य मित्यादि, व्यञ्जनस्योक्तलक्षणस्यार्थस्य च,'ईहादयस्त्वर्थस्यैव' सामान्यविशेषात्मनः,आह-यदा पुद्गला व्यंजनं तदा | कथमिदमर्थाद् भिद्यते ?,अभेदे च व्यञ्जनस्यावग्रह इति किपरं सूत्रं?, उच्यते, प्राप्तकारीन्द्रियविषयपुद्गला व्यञ्जनं, तेषामादा| वर्थावग्रहयोधाभिमुख्यकारि यत् स्वीकरणं तप्तशराबम्रक्षणतुल्यं न तत्रेहादय इत्येवंपरं सूत्रं ।। तत् किमयं व्यंजनावग्रहो न सर्वत्र', ओमित्युच्यते, तथा चाह सूत्रकारः
न चक्षुरनिन्द्रियाभ्यां ॥१०॥ सूत्रं ॥ व्यंजनावग्रह इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह भाष्यकार:-'चक्षुषे'त्यादि (पृ. १९.२) चक्षुषा उपकरणेन्द्रियाख्येन | सह नोइन्द्रियेण च मनओघज्ञानरूपेण व्यंजनावग्रहो न भवति, एतदुक्तं भवति-ते रूपाकारपरिणताः पुद्गलाश्चिन्त्यमानाश्च वस्तुविशेषाः न ताभ्यां संश्लिष्य विज्ञानं जनयंति,अपि तु योग्यदेशावस्थिताश्चक्षुषा गृह्यन्ते,प्रणिधानमचिवाश्च मनसा चिन्त्यन्ते,संश्लेपाभ्युपगमे तु अक्ष्यञ्जनादेः ग्रहणं,विषयकृतौ वाऽनुग्रहोपघातौ दुर्निवारी, नायनरश्मिविधानं मनोनिर्गमनं चान्यत्र निराकृतमिति नेहाभिधीयते,अतश्चक्षुरनिन्द्रियाभ्यां व्यंजनावग्रहो न भवति, शेषेर्भवतीत्याह-'चतुर्भि'रित्यादि, चतुभिरिन्द्रियैः-स्पनिरसनघ्राणश्रोत्रैः शेषैः-उपयुक्तवर्जेर्भवति व्यंजनावग्रह इति,अत्र चतुभिरिन्द्रियरित्यनेन संख्याभ्युपगमतोऽधिकेन्द्रियव्यवच्छेदः,
॥ ७०॥
॥ ७०॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org