________________
श्रीतस्वार्थहरि
॥ ६९ ॥
Jain Education International
तरकालं तथा अपायादिदर्शनादिना कृतैव, तथा कश्चिद् ध्रुवो बोधो भवति यतः पुनः स्मरणं प्रवर्त्तते, अन्यस्तु न तथेत्यनुभवसिद्धमेतत्, एवमीहादीनामपि विद्यात्, 'एव' मिति यथा विषयस्य बह्नादेर्भेदात् द्वादशप्रकारोऽवग्रहेोऽभिहितः क्षयोपशमेोत्कर्षापकर्षाद् 'एवमहादीनामपि' ईहापायधारणानामपि विद्याद् जानीयाद् भेदं, तद्यथा- बह्वीहते अल्पमीहते, एवं बह्नपैत्यत्यल्पमवैति, एवं बहु धारयत्यल्पं धारयतीत्यादि द्वादशविधत्वमिति । एवमवग्रहादीनां स्वस्थाने द्वादशविधं ग्राह्य भेदाद्भेदं प्रतिपाद्येदानीमेपामेव विपयं निर्द्धारयन्नाह -
अर्थस्येति ॥ सूत्रं १७ ॥
अर्थस्य ग्राहकाः अवग्रहादय इति सूत्रसमुदायार्थः, अवयवार्थं त्वाह भाष्यकार:- 'अवग्रहादय' इत्यादिः (पृ. १८-६) अवग्रहादयोऽनन्तरोदितस्वरूपा मतिज्ञानविकल्पा- मतिज्ञानांशाः अर्थस्य - सामान्यविशेषात्मनो विषयरूपस्य भवन्ति ग्राहकाः, विषयिण इतियावत्, अर्थग्रहणं व्यञ्जनव्यावृत्त्यर्थं साकल्येनेतेऽर्थस्यैव भवन्ति, न व्यञ्जनस्य ॥ व्यञ्जनस्य तर्हि किमित्याहव्यञ्जनस्यावग्रहइति ॥ सूत्रं १८ ॥
एक एव भवतीति सूत्रसमुदायार्थः, अवयवार्थं त्वाह भाष्यकार:- 'व्यञ्जनस्ये' त्यादिना, (पृ. १८-९) व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यजनं, तच्चोपकरणेन्द्रियशब्दादिपरिणतद्रव्यसंक्षेपरूपं, तथा चाह भाष्यकार:- 'वंजिजह जेणत्था घडे व दीवेण वंजणं तं च । उबकरणिदिअसद्दाइपरिणओ दवसंबंधो ॥ १ ॥ (विशे. १९४ ) इत्यादि, तस्य व्यञ्जनस्य संश्लेपरूपस्यावग्रह एवंको भवति, तथाविधक्षयोपशमाभावादव्यक्ततन्मात्रधिः सुपुप्ताङ्गपतितोत्पलनाल संश्लेषबोधवत्, 'नेहादय' इति, शब्दाद्यर्थविषय
For Personal & Private Use Only
अर्थव्यंजनावग्रहौ
॥ ६९ ॥
www.jainelibrary.org