________________
श्रीतच्चार्थ
हरि०
अवग्रहादयः
तस्मात्तत्र मतिज्ञानावरणक्षयोपशम एव केवलो निमित्त क्रियत ओघज्ञानस्य । तत पुनरिन्द्रियनिमित्तमनिन्द्रियनिमित्तं च ज्ञान किमेकरूपमुतास्ति कश्चिद्भेदकलापः ?, अस्तीत्याह, यद्यस्ति ततो भण्यताम् , उच्यते
अवग्रहहापायधारणा इति १५ ॥ सूत्रं.॥ अवग्रहादयः इन्द्रियानिन्द्रियनिमित्तमतिज्ञानभेदा इति सूत्रसमुदायार्थः, अवयवार्थ त्वाह भाष्यकार:-'तदेतवि' त्यादिना | (पृ. १६.१६.) तदेतत् मतिज्ञानं लक्षणविधानाभ्यां यदुक्तं 'उभयनिमित्तमपि' इन्द्रियनिमित्तमनिन्द्रियनिमित्तम् ,अपिशब्दा-| दिन्द्रियानिन्द्रियनिमित्तमपि 'एकशः' इत्येकैकं स्पर्शनादीन्द्रियव्यक्त्यपेक्षयाऽपि चतुर्विध मिति चतस्रो विधा यस्य तच्चतुर्विधं| भवति, 'तयथेति विधोपन्यासार्थः, 'अवग्रह' इत्यादि, एवमुपन्यस्यावग्रहस्वरूपाभिधित्सयाह-तत्राव्यक्त'मित्यादि, नत्रेति | पूर्ववत् अव्यक्तम्-अस्फुटमालोचनावधारणमिति योगः,नदेव विशेष्यते- 'यथास्वमिति यथास्वमिति यथात्मीयः, इन्द्रियः स्पर्शनादिभिविषयाणां स्पर्शादीनां यथाऽऽत्मीयो-यो यस्य विषयः,स्वविषय इत्यर्थः, आलोचनावधारण'मिति आङ् मर्यादायां, | लोचनं-दर्शनं, एतदुक्तं भवति-मर्यादया सामान्यम्यानिद्देश्यस्य स्वरूपनामादिकल्पनारहितम्य दर्शनमालोचनं तदेवावधारणमालोचनावधारणं, एतदवग्रहाभिधीयते. अवग्रहणमवग्रहः इत्यन्वर्थयोगादिति, एवं स्वचिह्नतोऽवग्रहमभिधायास्यैव पर्यायशब्दानाह-'अवग्रह। ग्रहणमालेाचनअवधारणमित्यनान्तरं' सामान्यमात्रपरिच्छेदवाचित्वात् पर्यायशब्दा एवैते इति, एवमवग्रहं कथयित्वा ईहास्वरूपं कथयताह-'अब गृहीत' इत्यादि.अक्मृहीत इत्यनेन क्रमं दर्शयति, अवगृहीते मामान्ये ईहा प्रव-| नने, तमाह-'विषयाके'त्यादि, (विषयः सामान्यविशेषरूपः) म एवार्यमाणत्वादर्थः विषयार्थः तस्यैकदेशः सामान्यमनिर्द
॥६५॥
॥६५॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org