________________
श्रीतवार्थहरि०
न्द्रियं च इन्द्रियानिन्द्रिये च इन्द्रियानिन्द्रियाणि नानि निमित्तं यस्य तदिन्द्रियानिन्द्रियनिमित्तमिति, एतदेवाह-इन्द्रियनिमित्त-|
10 इन्द्रियानिमनिन्द्रियनिमित्तं च, चशब्दादुभयं चेति, अपेक्षाकारणं चाङ्गीकृत्य सूत्रं पपाटाचार्यः तदिन्द्रियानिन्द्रियनिमित्तमिति, अपेक्षा-14
|न्द्रियतत्व कारणं चालोकविपयेन्द्रियाणि, सति प्रकाशे विपये च चक्षुरादिषु च सत्सु ज्ञानस्योद्भवो दृष्टः, तेषामपि मध्येऽन्तरङ्गमपेक्षाकारणमिन्द्रियाणि पटितं, पारमार्थिकं तु कारणं क्षयोपशमः मतिज्ञानावरणपुद्गलानां, न हि तदावरणक्षयोपशममनपेक्ष्य ज्ञानस्योत्पत्तिरिष्यते, यदि तबन्तरनिमित्तं क्षयोपशमः स एवोपादेयः, किं बाह्येनेन्द्रियानिन्द्रियनिमित्तेनाधीतेनेति, उच्यते, स क्षयोपशमः सर्वसाधारण इतिकृत्वा न पठितः, चशब्देन वा सङ्गहीतो द्रष्टव्यः, इन्द्रियनिमित्त निन्द्रियनिमित्तं च, चशब्दात् क्षयोपशमनिमित्तमिति, न च भावेन्द्रियस्य तद्रूपत्वादिति, तत्रेन्द्रियनिमित्तं स्वयमेव भावयति-तत्रेन्द्रिये'त्यादि,नत्र-तेषां त्रयाणा | मध्ये इन्द्रियनिमित्त तावद् भव्यते-'स्पर्शनादीना'मिति स्पर्शनरसनघाणचक्षुःश्रोत्राणां पंचानामेव पञ्चस्वेवेत्यन्यस्याभावं | नियमयति, स्वे आत्मीया विषया येषु प्राणिनः सक्ति भजते तेषु स्वेषु विषयेषु, तद्यथा-स्पर्शनस्य स्पर्श रसनस्य रसे घ्राणस्य
गन्धे चक्षुपो रूपे श्रोत्रस्य शब्दे, अत एषां स्पर्शनादीनां स्वविषयेषु वर्तमानानां ग्राहितया यदुपजायते ज्ञानं तत् तानीन्द्रिया| ण्यालम्व्योत्पद्यमानमिन्द्रियनिमित्तमिति भण्यते, इदानीमनिन्द्रियनिमित्तमाचष्टे-अनिन्द्रियं-मनस्तन्निमितं यस्य तदनिन्द्रिय|निमित्तं, कीदृक् तद् इत्याह-'मनोवृत्तिः मनोविज्ञानमिति, मनसो--भावाख्यस्य वर्तनं-विषयपरिच्छेदितया परिणतिर्मनोवृत्तिः, |'ओघज्ञानं चेति ओधः--सामान्यं अप्रविभक्तरूपं यत्र न स्पर्शनादीनीन्द्रियाणि नापि मनोनिमित्तमाश्रीयते, केवलं मत्यावर- ॥६४॥ णीयक्षयोपशम एव तस्य ज्ञानस्योत्पत्तौ निमित्तं, यथा वल्लयादीनां नीबाघभिसर्पणज्ञाने न स्पर्शनं निमित्तं, न मनो निमित्तमिति,
॥ ६४॥
Jan Education r
ational
For Personal Private Use Only