SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीतत्वार्थहरि० |परिच्छन्नेन्द्रियार्थग्राहि मानसं, संज्ञाज्ञानं स एवायमहमद्राक्षमिति प्रत्यभिज्ञा ज्ञान, चिन्ताज्ञानं यथावदागामिवस्तुविषयं मानसमेव, अभिनिबोधज्ञानं तु सर्वैरेभिः प्रकारैरभिमुखनिश्चितविषयपरिच्छेदरूपं, इतिशब्द एवमित्यस्याथ, एवमनर्थान्तरमिति, IN इन्द्रियानिकियताऽपि अंशेन भेदं प्रतिपद्यमानमप्यनर्थान्तरं, किमुक्तं भवति ?--नैषां मतिज्ञानविरहितोऽर्थः कल्पनीय इति । एवं लक्षणतो | न्द्रिय | मतिज्ञानमभिधायाधुना विधानतोऽभिधातुमाह तदिन्द्रियानिन्द्रियनिमित्तम् ॥१४॥ स्त्रं अस्य समुदायार्थः प्राग व्याख्यातः, अधुना अवयवार्थमाह-'तदेतदि'(पृ. १६-१९)त्यनन्तरोक्तलक्षणोपेत मतिज्ञान किं|निमित्तं ?, उच्यते, हेतोद्वैविध्याद् द्विविधं भवति, तेनैव हेतुना द्विविवेन तत्कार्यमादर्शयति-इन्द्रियनिमित्तमनिन्द्रिय|निमित्तं च, तत्रन्द्रियाणि-स्पर्शनादीनि पञ्च निमित्तं यस्य तदिन्द्रियनिमित्तं, न हि श्रोत्रेन्द्रियमन्तरेणायं प्रत्ययो भवति-शब्दो|ऽयमिति, न वा स्पर्शनमन्तरेणायं प्रत्यय उत्पद्यते-शीतोऽयमुष्णो वा, एवं शेपेष्वपि वाच्यं, तथा 'अनिन्द्रियनिमित्त मितिइन्द्रियादन्यदनिन्द्रियं-मनः ओघश्चेति, तन्निमित्तमस्य मतिज्ञानस्य तदनिन्द्रियनिमित्तमिति, स्मृतिज्ञानहेतुमनः, एवं चैतद् द्रष्टव्यम्-इन्द्रियनिमित्तमेकमपरमनिन्द्रियनिमित्तं अन्यदिन्द्रियानिन्द्रियनिमित्तमिति विधा, तत्रकमिन्द्रियनिमित्तमेव ज्ञानं मत्याख्यं, | यथा अवनिनीरदहनपवनवनस्पतीनामेकेन्द्रियाणां द्वित्रिचतुरिन्द्रियाणां असंज्ञिनां पश्चन्द्रियाणां, मनसः अभावात् , तथा अनिन्द्रियनिमित्तं स्मृतिज्ञानमितरेन्द्रियनिरपेक्षं, चक्षुरादिव्यापाराभावात् , तथा इन्द्रियनिमित्तं जाग्रदवस्थायां स्पर्शनेन मनसोपयुक्तं |स्पृशत्युष्णमिदं शीतं वेति, इन्द्रियं मनश्चोभयं तस्योत्पत्तौ निमित्तं भवतीति, तदेतत् सर्वमेकशेपाल्लभ्यत इति, इन्द्रियं च अनि ॥६३॥ ॥६३॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy