________________
श्रीतच्चार्थहरि०
च मतिश्रुते तयोर्विकल्पा:--भेदास्तेभ्यो जायन्त इति मतिश्रुतविकल्पजानि भवन्ति यथा तथा नयविचारणायां पुरस्तात् |
मत्यादेल| वक्ष्याम इति, शब्दनयस्य हि मिथ्यादृष्टिरज्ञो वा नास्तीति वक्ष्यति, तन्मतेन तु प्रमाणानीति ॥ सूत्रान्तरसम्बन्धाभिधित्सयाऽऽह
क्षणतो 'अनाहे त्यादि,अत्रइत्येतस्मिन् ज्ञानपञ्चके कथिते सामान्येन प्रमाणद्वये च प्रत्यक्षपरोक्षरूपे विहिते परोऽवोचत्-'उक्तं' प्रति| पादितं त्वया, किमिति तद् ?, उच्यते--मत्यादीनि पंच ज्ञानानि-मतिश्रुतावधिमनःपर्यायकेवलानि, एवमुद्दिश्य तत इदममिहित--किं तद् ?, उच्यते-'तानि विधानतो लक्षणतश्च पुरस्ताद्विस्तरेण वक्ष्याम'इत्येतत् , ननु च नैवंविधं तत्र सूत्रे भाष्यमस्ति-विधानतो लक्षणतश्च, कथमयमध्यारोपः क्रियते गुरोरिति ?, उच्यते, सत्यमेवंविधं भाष्यं नास्ति, एवं पुनः समस्तिप्रभेदास्त्वस्य पुरस्ताद्वक्ष्यन्त इति, अतः प्रभेदा इत्यनेन विधानलक्षणरूपाः प्रतिपाद्यन्ते तत्र भाष्ये, अतो नाध्यारोप इति, तत्र विधान-भेदः मत्यादेः, लक्षणं त्वसाधारणं चिह्नं इति, यदेतत् प्रतिज्ञातं प्राक्तदुच्यतामिति पृष्टः सन् आह-'अत्रोच्यते' अत्र एतस्मिँश्वोदिते उच्यते मया लक्षणमादौ, अल्पविचारत्वात् , तदाह
मतिः स्मृतिः संज्ञा चिन्तामिनियोध इत्यनन्तरम् ।।१३।। सूत्रम् __आह-लक्षणतो विधानतश्चेत्येवमेव किन्न कृतः सम्बन्धग्रन्थो येनाल्पविचारत्वादिति प्रयोजनमाश्रीयते, उच्यते, प्राग विधानं | लक्षणाङ्गभावख्यापनार्थमिति, मतिः स्मृतिः संज्ञा चिन्ताभिनिबोध इत्यनान्तरमिति पर्यायैर्लक्षणाभिधानं मननाद्यात्मकमेत|दित्यदुष्टमेव, अयं सूत्रसमुदायार्थः, अवयवार्थमाह-'मतिज्ञान'मित्यादिना (पृ. १५-८) मननं मतिः सैव ज्ञानं मतिज्ञानमि-|| ।।६२ त्येवं सर्वत्राक्षरगमनिका कार्या,भावार्थस्त्वयं-मतिज्ञानं नाम यदिन्द्रियानिन्द्रियनिमित्तं वर्तमानविषयपरिच्छेदि, स्मृतिज्ञानं प्राक् |
॥ ६२॥
Jan Education r
ational
For Personal Private Use Only