SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मानेत्यादि, अनुमानं चोपमानं चेत्यादिद्वन्द्वः, तत्रानुमानं - लिङ्गादर्थदर्शनं, प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानं, आसोपदेशः श्रीतच्चार्थ- 21 आगमः, दृष्टादेरदृष्टादि कल्पनमर्थापत्तिः, सम्भवः प्रस्थादौ कुडवादिभावः, अभावो भावोपलम्भकप्रमाणविरह इति एतान्यपि च हरि० प्रमाणानीत्येवं साङ्ख्यादयः आचार्यदेशीया वा (केचित्) मन्यन्ते तत् कथमेतदिति, किमेतान्यप्रमाणान्येव उत प्रमाणान्त| राणि भवन्तीति चोदकाभिप्रायः, अत्र परिहारमाह- 'उच्यत' इत्यादिना, उच्यते अत्र समाधिः, सर्वाण्येतानि - अनुमानादीनि | मतिश्रुतयोरन्तर्भूतानि - प्रविष्टानि, कथमिति युक्तिमाह- 'इन्द्रियार्थे'त्यादि इन्द्रियाणि चक्षुरादीनि तेषामर्था-रूपादयः इन्द्रियाणि | चार्थाश्च इन्द्रियार्थास्तेषां सन्निकर्षः सम्बन्धः स इन्द्रियार्थसन्निकपा निमित्तं यस्य तत्तथा अनुमानादि तद्भावस्तस्मात्, न हि धूमादिभिः प्रस्थ पर्यन्तैरिन्द्रियानिन्द्रियाभ्यामगृहीतैरनुमानादीनां सम्भव इति मतितयोरन्तर्भावः, 'किंचान्यदि'ति पक्षान्तरमाश्रयति, तदाह-'अप्रमाणान्येव वा' अनन्तरोदितानि अनुमानादीनि कुन ? इति प्रश्नः अत्र निर्वचनं- 'मिथ्यादर्शने त्यादि, मि ध्यादर्शनेन तवार्थाश्रद्धान पूर्वेणैकनयरूपेण परिग्रहात्-स्वयमङ्गीकरणात् अनुमानादीनां तथा 'विपरीते' त्यादि, विपरीतानामुपदेश:- कथनं परेभ्यस्तद्विपयलक्षण गोचरमिति विपरीतोपदेशः तस्माच कारणात् अप्रमाणान्येव, एकानेकस्वभावे वस्तुतत्वे एकस्वमावमनेकस्वभावं वेति यावानुपदेशः स विपरीत एवेति भावनीयं, न चेयं स्वमनीषिकेति सूत्रकारमतमुपन्यस्यन्नाह - 'मिथ्यादष्टे' रित्यादि, मिथ्यादृष्टेः प्राणिनो यस्मान्मतिश्रुतावधयस्त्रयोऽपि नियतं - निश्चितमज्ञानमेव, कुत्सितं ज्ञानमित्येवं वक्ष्यति सूत्रकारः, न चाज्ञानस्य प्रामाण्यमिति प्रतीतमेतत्, आह- यद्येवं कथं मतिश्रुतयोरन्तर्भूतानीत्युक्तम् ? अत्रोच्यते- 'नयवादे' त्यादि, | नया-नैगमादयस्तेषां वादः स्वरुचितार्थप्रकाशनं नयवादस्तस्य अन्तरं भेदः नयवादान्तरं तेन नयवादभेदेनैव, 'यथा' मतिश्व श्रुतं ॥ ६१ ॥ Jain Education International love ou For Personal & Private Use Only अनुमानादीनां ग्रामातरे www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy