________________
अवध्या
हरि०
|मविरोधः, प्रतीतिविरोधोऽपि नास्ति, साक्षाद्रूपादिदर्शनासिद्धः, इन्द्रियादिद्वारेण दर्शनात् , शक्यं चात्र वक्तुं इन्द्रियमनोनिमित्तं || श्रीतचार्थ| विज्ञानं परोक्षं, ग्राह्यगृहीतृव्यतिरिक्तनिमित्तोत्थापितप्रत्ययात्मकत्वाद्धमादग्निज्ञानवत् , विपक्षेऽवध्यादीति कृतं प्रसङ्गेन । एवं
दीनां | परोक्षं प्रमाणमभिधाय तदन्यदभिधातुमाह
प्रत्यक्षत्वं प्रत्यक्षमन्यदिति ॥ (सूत्रं १२) उक्तलक्षणज्ञानद्वयाद् यदन्यद् ज्ञानमयं तत् प्रत्यक्षमिति सूत्रसमुदायार्थः। एतदेवाह भाष्यकार:- मतिभ्रुताभ्यामिति (पृ.१५-18 M८) मतिज्ञानश्रुतज्ञानाभ्यां यदन्यत् प्रागुद्दिष्टे ज्ञानपञ्चकेऽवशिष्यते त्रिविधं ज्ञानम् अवध्यादि तत् त्रिविधमिति प्रत्यक्षप्रमाणं
भवति, प्रमाणमनूद्य प्रत्यक्षं भवतीत्येतद्विधीयत इति, एवं शब्दार्थेनैव तत्वतः प्रतिपादितमपि प्रत्यक्षं सम्यगनवगच्छन्नाह चो-|| दकः-'कुत' इति कस्मात् प्रत्यक्षं प्रमाणं भवति ?,गुरुरपि तदेव स्पष्टयन्नाह-'अतीन्द्रियत्वादिति,अतिक्रान्तमिन्द्रियाणामतीन्द्रियं ज्ञानं तद्भावोऽतीन्द्रियत्वं तस्मादिति, यत् प्राणिनां ज्ञानदर्शनावरण (पोः) क्षयोपशमाच शयाच्च इन्द्रियानिन्द्रियद्वारान| पेक्षमात्मानमेव केवलमभिमुखीकुर्वदुदेति तत् प्रत्यक्षम्-अवध्यादि एव,'तत् प्रमाणे इति द्वित्वसंख्यायां परोक्षप्रत्यक्षाख्यो यो | विषयस्तमुपदर्य प्रमाणशब्दार्थ कथयन्नाह भाष्यकार:-'प्रमीयन्तेस्तैरिति प्रमाणानी'ति, प्रमीयन्ते-परिच्छिद्यन्ते सद
| सदित्यादिभेदेनार्थाः-जीवादयस्तैरिति प्रमाणानि, करणे ल्युत्, भावनात्र प्राक् कृतैय, ज्ञानव्यक्त्यपेक्षो बहुवचननिर्देशः प्रमा॥६ ॥ | णानीति, अत्राहेति एवं द्वे परोक्षप्रत्यक्षप्रमाणे भवत इति ज्ञापिते चोदयति-'इहे'त्यादि, इह-शास्त्रेऽवधारितमेतत् , अन्यथा
'तत् प्रमाणे इति द्वित्वससङ्घयावयर्थ्य, के द्वे इत्याह-'प्रत्यक्षपरोक्षे इति, लोकरूढथैवमुपन्यासः, ततः किमित्याह-'अनु
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org