SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीस्वार्थहरि० ।। ५८ ।। Jain Education International १४-९) तच्छन्द एतदित्यस्यार्थे, पश्चविधमपि ज्ञानं मत्यादि द्वे प्रमाणे भवत इत्येतदत्र विधीयते, किम्भूते द्वे इत्याह'परोक्षं प्रत्यक्षं चे 'ति परैः - इन्द्रियैरुक्षा सम्बन्धनं यस्य ज्ञानस्य तत् परोक्षम् - इन्द्रियादिनिमित्तं मत्यादि यत्पुनरिन्द्रियादिनिमित्त निरपेक्षमात्मन एवोपजायते अवध्यादि तत् प्रत्यक्षं, चशब्दः स्वगतानेकभेदसमुच्चयार्थः इत्थमुपन्यासे चैत्रमेषानयोर्भाव इति प्रयोजनं । परोक्षभभिधातुमाह तत्र - आये परोक्षमिति ॥ (सूत्रं ११ ) 1 एतदेव व्याचष्टे भाष्यकारः - 'आदौ भवमाद्यं' (पृ. १४ - १२) यस्मात् परमस्ति न पूर्वं स आदिः, विवक्षावशात्, तत्र भवं 'दिगादित्वात्' आद्यमिति, आद्यं चाद्यं चेत्याद्ये इति, प्रतिविशिष्टेन च क्रमेण व्यवस्थितानामाद्यव्यपदेशो दृश्यते, तद्यथा-अयं यतिरेषां विशिष्टक्रमभाजामाद्य इति, एवमत्रामृर्त्तानां ज्ञानानां क्रमसन्निवेशो दुरुपपाद इति मत्वा अब्रवीत् - 'आद्ये इति सूत्रक्रमप्रामाण्यात्' सूत्रं चासन्नमप्यनन्तरं त्यज्यते तत् प्रमाणे इति, सन्निवेशाभावात् तस्मात् परमेव मतिश्रुतादि ग्राह्यं तत्र क्रमः - परिपाटी, सूत्रे क्रमः सूत्रक्रमस्तस्य प्रामाण्यम् - आश्रयणं तस्मात्, 'प्रथमद्वितीये' मतिश्रुते 'शास्ती 'ति कथयति सूत्रकार इत्याह भाष्यकारः अस्यैव भावार्थमाह- 'तदेव' मित्यादिना तदेवमद्यव्यपदेशे सिद्धे सुखेन वक्तुं शक्यते यदुताद्ये मतिज्ञान| श्रुतज्ञाने द्वे अपि परोक्षं प्रमाणं भवत इति, शेषमनुद्य परोक्षप्रमाणता विधीयते, एवं शब्दार्थेन तच्चतः प्रतिपादितमपि परोक्षत्वं सम्यगनवगच्छन्नाह चोदकः 'कुत' इति कस्मात् परोक्षं प्रमाणं भवतः, गुरुरपि तदेव स्पष्टयन्नाह - 'निमित्तापेक्षत्वादिति इन्द्रिय| मनोनिमित्तापेक्षत्वादिति, इन्द्रियमनोनिमित्तापेक्षत्वादिभिः प्रायः एवमपि ततोऽनवगच्छतः सामान्येन निमित्तापेक्षत्वादिति For Personal & Private Use Only मतिश्रुतयोः परोक्षता ॥ ५८ ॥ www.jainelibrary.org
SR No.600213
Book TitleTattvartha Sutram
Original Sutra AuthorUmaswami, Umaswati, Haribhadrasuri
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1936
Total Pages556
LanguageSanskrit
ClassificationManuscript, Tattvartha Sutra, & Tattvarth
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy