________________
श्रीतच्चार्थहरि०
॥ ५७ ॥
Jain Education International
| मन्यमानमनोद्रव्यधर्म्मा इत्यर्थः, साक्षात्कारेण तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानमिति, 'केवलज्ञान' मिति केवलमित्येकं स्वभे दरहितं शुद्धं वा-सकलावरणशून्यं, सकलं वा आदित एव सम्पूर्ण असाधारणं वा-मत्यादिविकलं अनन्तं वा-सर्वद्रव्यभावपरिच्छेदि ज्ञानं केवलज्ञानं, स्वाम्यादिसाधर्म्याद्वादौ मतिश्रुतोपन्यासः, अत्रापि मतिभेदत्वात् मतिपूर्वकत्वाच्च श्रुतस्यादौ मतेः, कालविपययादिसाधर्म्याच्च तदन्ववधेः, छद्मस्थविपयादिसाधर्म्याच्च तदनु मनःपर्यायस्य, उत्तमत्वादिमिर्वाऽन्ते केवलस्येत्युगन्यासानुपूर्वी प्रयोजनं, तथा चोक्तम्- "जं सामिकालकारणविसयपरोक्खत्तणेहिं तुल्लाई । तब्भावी (वे. विशे.भा.) सेसाणि अ तेणा| दीए मतिसुआई || १ || कालविवज्जयसामित्तलाहसामण्णओऽवही तत्तो । माणसमेत्तो छउमत्थविसयभावादिसामण्णा ॥ २ ॥ अंते | केवलमुत्तमजइसामित्तावसाणलाभाओ ।" ( विशे. ८६-८७ ) इत्यादि, ' इत्येतदि 'ति. इतिरियत्तायां, एतावदेव नान्य| दस्ति, एतदित्यवयवप्रविभागेन यदाख्यातं मूलम् - आद्यं विधानं भेदः मूलं च तद्विधानं च मूलविधानं तेन मूलविधानेन -मूल| विधानतः 'पंचविध' मित्यादि ज्ञेयपरिच्छेदि ज्ञानं, एतदुक्तं भवति-मौलान् भेदानङ्गीकृत्य पञ्चविधमेव भवति, अथ किमन्ये एषां पञ्चानां प्रभेदाः सन्ति उत नेति ?, सन्तीत्युच्यते, 'प्रभेदास्त्वस्ये' त्यादि, प्रभेदा-अंशाः अवयवाः अस्य पञ्चविधस्योपरिष्टाद् | वक्ष्यन्ते, मूलभेदास्तु न कथितत्वादिति, मतिज्ञानस्यावग्रहादयः श्रुतस्याङ्गानङ्गप्रविष्टादयः अवधिज्ञानस्य भवप्रत्ययादयः मनःपर्यायज्ञानस्य ऋजुमत्यादयः, केवलज्ञानस्य न सन्त्येवेति । एवं ज्ञानमभिधायेह प्रमाणसंख्यामाह -
तत् प्रमाणे इति ॥ ( सूत्रं १० )
इदं पञ्चविधमपि ज्ञानं जातिभेदेन द्वे प्रमाणे इति सूत्रसमुदायार्थः । अवयवार्थं स्वाह भाष्यकारः - ' तदेतदि 'त्यादिना (पृ.
For Personal & Private Use Only
ज्ञानपंचक्रमः
।। ५७ ।।
www.jainelibrary.org